________________
नवराजयशोभूषणम् ।
[विलास. ३ अर्थशक्तिमूलं यथा
शम्भु क्ष्वेलगलं सुधाजलनिधिं शैवालजालाकुलं
चन्द्रं चाङ्गलसत्कुरङ्गमभितो गङ्गां सनीलोत्पलाम् । त्यक्त्वा सम्प्रति सर्वतोऽपि धवलां नञ्जक्षमावल्लभ
त्वत्कीति नियतं भजन्ति निखिला नैर्मल्यलक्ष्मीगुणाः॥ अत्र श्वेलगलादिविशेषणपदैर्व्यज्यमानं मालिन्यं नैर्मल्यलक्ष्मीगुणानां. चन्द्रादिपरित्यागरूपवाच्यस्याङ्गम् । वाच्यसिद्धावङ्गं यथा
स्थैर्य ममास्त्विति महीमभितोऽपि पादै
राक्रामतु प्रविशतु प्रथमं पयोधिम् । श्रीरस्तु मत्प्रणयिनीति रिपुस्त्वदीयो
भो नञ्जभूप भवतस्तु वशंवदे ते ॥ अत्र स्थैर्यत्रियौ भवत एव । नान्यस्य सम्भवत इत्यर्थः । अत्र पर्वतत्वं विष्णुत्वं च व्यङ्ग्यम् । स्थिरभावप्राप्तिरूपवाच्यस्य सिद्धौ श्रीप्रणयप्रातिरूपवाच्यस्य सिद्धौ यथाक्रममङ्गम् । अस्फुटं यथा
श्रीनञ्जराजक्षितिपालमौले
र्जानाति गाम्भीर्यमयं पयोधिः। स्थितिं च सर्वी महतो (सो?) विवस्वान्
सौन्दर्यसारं स च पुष्पधन्वा ॥ अत्र समुद्रसदृशं गाम्भीयं तपनसदृशः प्रतापो मन्मथसदृशं सौन्दर्यमित्यलङ्कारस्य कविसंरम्भगोचरत्वेनास्फुटत्वम् । सन्दिग्धप्राधान्यं यथा
उन्मीलत्पुलकं विलोलचिकुरं स्विद्यत्कपोलस्थलं
पार्श्वस्रस्तललन्तिकं परिवहत्प्रेमप्रसन्नेक्षणम् । हस्तेनाननमुन्नमय्य सुतनोः कस्याश्चिदालोकते
स्वामी नञ्जमहीपतिर्मकरिकानिर्माणचातुर्यवान् ॥ अत्र तात्पर्य विश्रान्तिर्वाच्ये मकरिकानिर्माण एव व्यङ्गधेऽधररसास्वादने वा पर्यवस्यतीति वाच्यव्यङ्गययोः प्राधान्यसन्देहः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com