SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नवराजयशोभूषणम् । [विलास. ३ अर्थशक्तिमूलं यथा शम्भु क्ष्वेलगलं सुधाजलनिधिं शैवालजालाकुलं चन्द्रं चाङ्गलसत्कुरङ्गमभितो गङ्गां सनीलोत्पलाम् । त्यक्त्वा सम्प्रति सर्वतोऽपि धवलां नञ्जक्षमावल्लभ त्वत्कीति नियतं भजन्ति निखिला नैर्मल्यलक्ष्मीगुणाः॥ अत्र श्वेलगलादिविशेषणपदैर्व्यज्यमानं मालिन्यं नैर्मल्यलक्ष्मीगुणानां. चन्द्रादिपरित्यागरूपवाच्यस्याङ्गम् । वाच्यसिद्धावङ्गं यथा स्थैर्य ममास्त्विति महीमभितोऽपि पादै राक्रामतु प्रविशतु प्रथमं पयोधिम् । श्रीरस्तु मत्प्रणयिनीति रिपुस्त्वदीयो भो नञ्जभूप भवतस्तु वशंवदे ते ॥ अत्र स्थैर्यत्रियौ भवत एव । नान्यस्य सम्भवत इत्यर्थः । अत्र पर्वतत्वं विष्णुत्वं च व्यङ्ग्यम् । स्थिरभावप्राप्तिरूपवाच्यस्य सिद्धौ श्रीप्रणयप्रातिरूपवाच्यस्य सिद्धौ यथाक्रममङ्गम् । अस्फुटं यथा श्रीनञ्जराजक्षितिपालमौले र्जानाति गाम्भीर्यमयं पयोधिः। स्थितिं च सर्वी महतो (सो?) विवस्वान् सौन्दर्यसारं स च पुष्पधन्वा ॥ अत्र समुद्रसदृशं गाम्भीयं तपनसदृशः प्रतापो मन्मथसदृशं सौन्दर्यमित्यलङ्कारस्य कविसंरम्भगोचरत्वेनास्फुटत्वम् । सन्दिग्धप्राधान्यं यथा उन्मीलत्पुलकं विलोलचिकुरं स्विद्यत्कपोलस्थलं पार्श्वस्रस्तललन्तिकं परिवहत्प्रेमप्रसन्नेक्षणम् । हस्तेनाननमुन्नमय्य सुतनोः कस्याश्चिदालोकते स्वामी नञ्जमहीपतिर्मकरिकानिर्माणचातुर्यवान् ॥ अत्र तात्पर्य विश्रान्तिर्वाच्ये मकरिकानिर्माण एव व्यङ्गधेऽधररसास्वादने वा पर्यवस्यतीति वाच्यव्यङ्गययोः प्राधान्यसन्देहः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy