________________
बिलास. ३ ]
ध्वनिनिरूपणम् ।
३३
इदं कृतिनायकस्य नवोढां नायिकां प्रति सखीवचनम् । अत्र परिरम्भते इति पदस्य स्वार्थतिरस्कारेण प्राग्भाव सम्बन्धलक्षण (क? ) त्वं तेन च प्राचीसूर्ययोर्नायिकानायकभावो व्यङ्गथः कविप्रयोगपरम्परागतत्वादगूढः ।
शब्दशक्तिमूलकमगूढं यथा
नञ्जराजाहृयो धन्वी युवाऽयं नलिनाम्बकः । रतिप्रियकरः कोऽपि रञ्जयत्यखिला वधूः ॥
अत्र कृतिनायकस्य मन्मथौपम्यं व्यङ्ग्यमगूढम् । नलिनाम्बकरतिप्रियंकरादिपदानां कविप्रयोगबाहुल्यात् । अर्थशक्तिमूलमगूढं यथा
येनासन्प्रतिपक्षभूमिपतयो विध्वस्तगर्वोदया लीनः क्वापि च येन दीनजनतादारिद्रयमुद्राभरः । विश्रान्ता भुज एव यस्य वसुधा सर्वा स्वयं शैशवे तादृक्षं भुवि नञ्जभूपतिलकं कः स्तोतुमस्तोकधीः ॥ अत्र शैशवे शात्रवविजयादिगुणाश्चेत्तारुण्यादिषु किमु वक्तव्यमित्यर्थापत्तिरगूढा व्यज्यते ।
अपराङ्गमपि द्विविधम् — व्यङ्गयाङ्गं वाच्याङ्गं चेति । तत्राद्यं यथानञ्जक्षितीन्द्रभटहस्तलसत्कृपाण
धारा विलोलमनसामवनीपतीनाम् । संस्तम्भयन्ति हृदयानि विवर्णयन्ति गात्राणि नेत्रयुगलीमपि घूर्णयन्ति ॥ अत्र भयानकस्य शृङ्गाररसोऽङ्गम् । वाच्याङ्गमपि शब्दशक्तिमूलमर्थशक्तिमूलश्चेति द्विविधम् । तत्राद्यं
यथा
फलानि स्वस्थेभ्यः परमभिमतानि प्रतिकलं
दानान्मन्दारद्रुमसुरभिचिन्तामणिमुखान् । मुहुर्यः कु ( कु ? ) र्वन्तः कृपणबहुविश्राणनचणं कवीन्द्राः श्लाघन्ते भुवनतिलकं नञ्जनृपतिम् ॥ स्वस्थेभ्यः ददानानित्यनेन दीनेषु विश्राणनं नास्तीति व्यङ्गधं कविकर्तृक[न्यक्काररूप] वाव्यस्याङ्गम् ।
१ लक्ष्यत्वं OL. २ तादर्था OL.
५-६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com