________________
नजराजयशोभूषणम् ।
[विलास. ३ प्रौढोक्तयोऽपि किमिति न सिध्येयुः। एवं प्रबन्धाधिगतत्वेन यथासम्भवमुदाहरणानि द्रष्टव्यानि । विस्तरभयादिह नोक्तानि इति संलक्ष्यक्रमव्यङ्ग्यनिरूपणम् । अथासंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः । तदुक्तं काव्यप्रकाशे
"रसभावतदाभासभावशान्त्यादिक्रमः । भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः" ॥ इति ।
असंलक्ष्यक्रमव्यङ्गयमग्रे वक्ष्यते । गुणीभूतक्रमव्यङ्गयं मध्यमं काव्यं निरूप्यते । वाच्याद्रम्यतया शब्दैः संगृह्य विवक्षितस्यैव व्यङ्गयस्य प्राधान्यं ध्वनिः । तदितरत्वं व्यङ्गयस्य गुणीभावः । स च संसधा । अपराङ्गत्वेन, अगू. ढत्वेन, स्फुटत्वेन, वाच्यव्यङ्गययोः प्राधान्यसन्देहेन, तौल्येन, वा (काका ?) स्वरगतत्वेन, असुन्दरत्वेन । तदुक्तम् ।
"अगूढमपरस्याङ्गं वाच्यसिध्यङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काकाक्षिप्तमसुन्दरम्" ॥ 'गूढमेव चमत्कारि कर्णाटीकुचकुम्भवत्।।
अगूढव्यङ्गयेऽपि मध्यमं काव्यम् । तत्रार्थान्तरसङ्कमितवाच्यमगूढं यथा
भवत्वजस्रं गगनं स चन्द्रो धनुश्च सज्जं मदनो दधातु ।
सदा वसन्तो वलतामिदानीं योषाऽस्मि नझेन्द्रकरग्रहेण ॥ अत्र योषाशब्दश्चन्द्राद्युत्सवाचरणादियोषाधर्मविशिष्टयोषालक्षकः । तेनैतावत्पर्यन्तमितिकर्तव्यताजडत्वमङ्गीकृतमिति सूचितं वस्त्वगूढम् । अस्य लोकपरम्पराप्रासरगूढता। अत्यन्ततिरस्कृतमगूढं यथा
लजां जहीहि ललने वलनेन चाक्ष्णो
रूरीकुरुष्व सहसा सखि नञ्जभूपम् । कोकी मुदश्च समुदश्चयति स्वनेन
प्राची दिशं प्रणयतः परिरम्भतेऽर्कः ॥ अत्रेदं प्रतिभाति—'सच सप्तधे'ति विभागवचनम् , तदनुगुणश्च विभाजकधर्मोपन्यासः 'अगूढत्वेने त्यादिः, किन्तु विभागे प्रमाणतयोपात्त अगूढ'मित्यादि काव्यप्रकाशवचनं वाच्य सिद्ध्यङ्गस्याधिकस्य परिगणनेनाष्टधा विभागमभिप्रैति, अगूढादीनामुदाहरणनिरूपणसमये तुस्वयं 'वाच्यसिद्धावङ्ग यथेत्येतदप्युदाह्रियते,तदष्टधा विभाग उपरिष्टादुदाहृतो भवति,तत् सप्तधेति स्थाने अष्टधेति अपराङ्गत्वेनेत्यस्यानन्तरं वाच्यसिद्धयङ्गत्वेनेति च पाठश्वेदौचित्यमोति।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com