SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ बिलास. ३] ध्वनिनिरूपणम् । मीलनालङ्कारो व्यज्यते। कविप्रौढोक्तिसिद्धार्थशक्तिमूलालङ्कारेणालङ्कारध्वनिः पदे यथात्वत्कीर्ति नाराज क्षितितिलक भुवः सर्वतो जृम्भमाणां जानाना नीरजाक्ष्यस्त्रिभुवनमभितः स्वास्रवन्तीं स्रवन्तीम् । मुग्धाः पुञ्जीभवन्त्यः कटितटविलसञ्चारुसौवर्णकुम्भं नीवीसंरुद्धचेलाञ्चलमतिमुदिता मङ्गकामा वलन्ते ॥ अत्र जानाना इति पदेन भ्रान्तिमदलङ्कारेण कीर्तेर्गङ्गायाश्चौपम्यं व्यज्यते। स एव वाक्ये यथा-- 'जेतुर्नञ्जमहीपतेस्त्रिजगदित्यादि[१९५]।अत्र स्मृत्यलङ्कारेणौपम्यं व्यज्यते। कविप्रौढोक्तिसिद्धार्थशक्तिमूलालङ्कारेण वस्तुध्वनिः पदे यथा सङ्कामोद्यतनञ्जभूपतिचमूरेणूत्कराच्छादिते__ वभ्वर्णभ्रमदिन्दुनिर्यदमृतोसिक्तेष्वरिष्माभृताम् । सौधाग्रेष्वभितः प्ररूढहरितेष्वागत्य नक्तंदिवं नदत्यद्य कपर्दिनः स्फुटतरक्षीबो महोक्षो मुहुः ।। अत्र पर्यायोक्त्यलङ्कारे नक्तन्दिवमितिपदेन शत्रुभूभृतामतिचिरेण प्रवृ. त्तत्वं प्रवासे व्यज्यते । स एव वाक्ये यथानाविभुकीर्तिजलधेः कतिपयलेशेषु मतिरेवम् । दुग्धाम्बुधिरिति दिविषत्तटिनीति शरत्सुधांशुरिति ॥ अत्रोल्लेखालङ्कारेण मूलभूतकीर्तेः क्षीरसमुद्रादिभ्योऽप्याधिक्यं व्यज्यते । उभयशक्तिमूलको यथा सामुद्रिकगुणोदारः समस्तभुवनश्रियम् । पुष्णन्नाविभुर्विष्णुं निद्राणं तनुते सुखम् ॥ अत्र सारस्वतगुणोदार इति वा पाठः । अत्र सुखं विष्णुं निद्राणं तनुत इत्यर्थशक्तिमूलकः । नञ्जराजसुधासागरयोरौपम्यध्वनिः । ननु कविनिबन्धनवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलाः प्रबन्धगताः किमिति न परिगणिता इति । मैवम् । कविप्रौढोक्तिष्वेवान्तर्भावात् । अन्यथा कविनिबन्धवक्तृनिबन्धकवि१ देशे OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy