SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ३० - नञ्जराजयशोभूषणम् । स एव वाक्ये यथा नञ्जक्षितीद्रस्य कृपाणधारा कलिन्दकन्येव कठोरवेगा । परं तु हृप्यद्बलभद्रबाहाविजृम्भवृत्तैरसहिष्णुरास्ते ॥ अत्र व्यतिरेकालङ्कारेण कृपाणधाराया यमुनापेक्षयोत्कर्षो व्यज्यते । अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलकाः । तेच प्रागुक्तरीत्या चतुविधाः । पदवाक्यगतत्वेन द्विविधाः कविप्रौढोक्तिसिद्धार्थशक्तिमूलकवस्तुध्वनिः 1 पदे यथा स्वाङ्कं समारोप्य यथा (या ?) चिराय संरक्षिताः सर्वलताश्च तत्र ( धात्र्या ? ) । नप्रभोर्दोरिति वल्लिरेखा (षा ? ) तामेव धात्रीमुचितं बिभर्त्ति ॥ - अत्र निर्विशेषपोषितास्वपि प्रजासु महापुरुषाश्रयिण्या एव स्वरक्षकधात्रीभरणं युक्तमिति लोकसिडं वस्तूचितमिति पदेन व्यज्यते । स एव वाक्ये यथा [ विलास. ३ असिप्रवीणस्तुतमुष्टिबन्धो धनुष्मदिच्छानुगुणप्रकोष्ठः । कठोरवक्षोजवधूभिरर्थ्य वक्षो वहन् राजति नञ्जभूपः ॥ अत्र मुष्टिबन्धप्रकोष्ठवक्षःस्थलेषु स्थैर्य नाम सामुद्रिकलक्षणोत्तराजचिह्नं वस्तु व्यज्यते । 'वक्षश्च मणिबन्धश्च मुष्टिश्च नृपतेः स्थिरा' । इति सामुब्रिकशास्त्रोक्तिः । कविप्रौढोक्तिसिद्धार्थशक्तिमूलवस्तुनाऽलङ्कारध्वनिः पदे यथा - द्रष्टुं नञ्जविभुं समुत्सुकतया विस्मृत्य घर्तुं गले हारं राजपथे च रज्य (न्त्य ?) तिजवादात्मानमालोक्य च । कस्याश्चिल्ललितस्मिताञ्चितदृशो हासप्रभालङ्कृत प्रोत्तुङ्गस्वकुचाग्रदत्तनयना काचिन्मुदं विन्दति ॥ मुदं विन्दतीत्यनेन समीपगतायाः कस्याश्चित् प्रौढस्त्रियो हासकान्त्या यत्नं विनैव स्वीयोत्तुङ्गकुचमण्डलधार्यमुक्ताहारलाभप्रतीतेः प्रहर्षणालङ्कारो व्यज्यते । स एव वाक्ये यथा नञ्जविभुकीर्तिरुचयः कुमुदेष्वपि घवलकमलषण्डेषु । सञ्चार्य सपदि कुतुकात् क्रीडन्ति हि कलशजलधिमभितोऽपि ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy