SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विलास. ३] ध्वनिनिरूपणम् । अवनिपतिभिर्न अक्षोणीमहेन्द्र दिदृक्षुभिनगरसविधे सङ्घीभूतैः सहैव समागतान् । द्विरदनिवहान् दृष्ट्वा धातुद्रवैरभिरञ्जितान् विपिनशिखिनो नित्यं नृत्यन्त्युदश्चितचन्द्रकाः ॥ नित्यं नृत्यन्तीतिपदेन वर्षासमयं विनाऽपि सार्वकालं सेन्द्रचापजलनान्तिरिति भ्रान्तिमदलङ्कारो व्यज्यते । सैव वाक्ये यथा नन्द्र भवतः सौम्यवंशे जाता धनुर्लता । इयं न सहते राजमण्डलस्योर्ध्वतः स्थितिम् ॥ अत्र विरोधाभासालङ्कारो व्यज्यते । स्वतः सिद्धार्थशक्तिमूलालङ्कारेणालङ्कारध्वनिः पदे यथास्निग्धामुन्मुक्तशोभामकतरममतावलोकप्रसङ्गात् (?) कान्तिप्रारभार चञ्चन्नख (?) मणिविलसन्मेखलालङ्कृताङ्गीम् । उद्दामोद्यन्नितम्बामवधिगिरिशिलाश्च ( च ?) क्रवाल्याश्च सीमामुल्लास्यातीव रक्तो विलसति तरुणो नञ्जराजप्रतापः ॥ अत्र समासोक्त्यलङ्कारे स्निग्धोद्यन्नितम्बारक्ततरुणपदैरुभयानुरूप्यप्रतीतेः समासालङ्कारो व्यज्यते । स एव वाक्ये यथा ― भूपेन्द्रनञ्जक्षितिपाल एव नित्यं निषेव्यः सकलैः सुधीभिः । वृक्षेषु कल्पद्रुम एव देवैरासादनीयः सततं समेतैः ॥ अत्र प्रतिवस्तूपमालङ्कारेणौपम्यं व्यज्यते । स्वतः सिद्धार्थशक्तिमूलालङ्कारेण वस्तुध्वनिः पदे यथानञ्जक्षितीन्द्रस्य जयध्वजाग्रराजत्कपीन्द्रश्रुतिमात्र एव । अनेकधा वैरिमहीपतीनां भवन्ति निश्वाससमीरधाराः ॥ २९ अत्र हनुमडूजश्रवणमात्रादेव रिपुराजदैन्यपिशुन निश्वासपरम्पराजननकथनादत्यन्तातिशयोक्त्यलङ्कारः । अत्र श्रुतिमात्र इत्यनेन साक्षाद्दर्शनं चेत्कथं भवति वा न ज्ञायत इति वस्तु व्यज्यते । १ वंश CL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy