SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास. ३ वाक्येऽलङ्कारध्वनिर्यथा आकर्णयन्ननविभोरौदार्यममरगुमः । धत्ते न भोगकुतुकं नितान्तं चलतान्वितः॥ अत्र नितान्तं चलतान्वित इत्यनेन नितान्तं च लतान्वितश्चेति [अर्थः ] चलतान्वित इत्यर्थश्च प्रतीयते । न भोगकुतुकं धत्त इत्यनेन [न] भोगकुतुकं घत्ते, न भोगकुतुकं धत्त इत्यर्थश्च । तथाच लतान्वितोऽपि तथाविधो भोगकुतुकं न पत्त इत्युत्प्रेक्षालङ्कारो रम्यते । तदेवं शब्दशक्तिमूलकं वस्त्वलङ्कारदैविध्यम् । तदुक्तम् "अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते। प्रधानत्वेन संज्ञेयः शब्दशक्त्युद्भवो विधा" ॥ इति । अतोऽ(अथा?) र्थशक्तिमूलकाः। तत्र स्वतःसिद्धार्थशक्तिमूलकत्वाचत्वारः । स्वतःसिद्धार्थशक्तिमूलकवस्तुध्वनिः, स्वतःसिद्धार्थशक्तिमूलकवस्तुनाऽलङ्कारध्वनिः, स्वतःसिद्धार्थशक्तिमूलकालङ्कारेणालङ्कारध्वनिः, स्वतःसिद्धार्थशक्तिमूलालङ्कारेण वस्तुध्वनिरिति । त एव पवाक्यगतत्वेन द्विविधाः। तत्र-स्वतःसिद्धार्थशक्तिमूलकवस्तुध्वनिः, पदे यथा नञ्जक्षितीन्द्रचकितैश्चलितैः स्वदेशात् कान्तैर्नृपैस्त्रिचतुराणि पदानि गत्वा । कान्ताः कियत्पदमिता सरणिर्विलवन्या नाथेति नम्रवदनाननुयुञ्जते तान् ॥ अत्र कियत्पदमितिपदेन न कदाऽप्येकघटिकापरिमितसरणिपर्यटनपरिघय इति महाभाग्यं वस्तु व्यज्यते । सैव वाक्ये यथा कर्णाग्रलोलदुरुमौक्तिकवाळिशोभा-- नीराजितानि नवकन्दलितस्मितानि । विस्रंसिनीविनहनानि विलासिनीनां नञ्जक्षितीन्द्रमुखलोलविलोकनानि ॥ अत्र चेष्टारूपवस्तुना नाविभुसौन्दर्यातिशयरूपं वस्तु व्यज्यते । स्वतःसिद्धार्थशक्तिमूलकवस्तुनाऽलङ्कारश्चनिः पदे यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy