SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ विलास. ३] ध्वनिनिरूपणम् हणयत्नं विनाऽपि मे सिध्ये [दि ] त्याशया मुहुः पश्यन्ती ( प्रहृष्यती ? ) स्यर्थः । अत्र प्रहर्षणालङ्कारो व्यज्यते । अत्र कर्कमितिपद्गतः श्वेताश्वकुलीरयोरपत्य ( रौपम्य ? ) ध्वनिः । योगशास्त्रवस्तुनिरूपितो यथा समर्प्य योगं स्वमरिक्षितीशव्रजेषु वीरेन्द्रतनुजखङ्गः । प्राणानिलं हृत्कमलाच तेषामुत्कम्पमभ्यासयति क्षणेन ॥ -- अत्र क्षणेनाभ्यासयतीत्यनेनात्यन्त चतुर योगीन्द्राभेदः खने गम्यते । अत्र योगमितिपदगतो योगशास्त्रौपम्यध्वनिः । गान्धर्वनिरूपितो यथा - दुर्विवादिस्वरारोह विधायी नञ्जभूपतेः । करवालः पूर्णरागध्रुवाभोगादिकल्पकः ॥ अत्र दुष्टविवादिनां रिपूणां स्वर्गारोहणदः, अन्यत्र दुर्विवादिनां दुष्टविरोघिस्वराणामारोह विधायी पूर्णरागाणां नित्यानुरागाणां ध्रुवाभोगो नित्यपरिपूर्तिः तत्कल्पकः । अन्यत्र पूर्णरागाणां ध्रुवागीतस्याभोगादीनाञ्च कल्पकः । तथा च करवालस्य गान्धर्वाभेदो गम्यत इति रूपकालङ्कारः । शब्दशक्तिमूलवस्तुध्वनिर्वाक्ये यथा १ स्य OL २७ स्वस्त्रेणसन्नुतगुणब्रज नञ्जराज स्वाधीनभूपजनतां महिमाश्रयत्वम् । याऽशेषयत्नविधूताऽपि सुखेन नासी देनां श्रियं च नियतं निभृतं वहस्व ॥ अत्र स्वाधीनराजसमूहतां महिमाश्रयत्वं याऽशेषयत्नविधृताऽपि सुखं नावर्त्तत तां श्रियं च निश्चलं वहस्वेत्याशंसारूपवस्तुनि प्रस्तुते या शेषयत्नविधृताऽपि सुखेन नासीत् तां महीं निभृतमाश्रयस्वेति भूप्रास्याशंसारूपं वस्तु व्यज्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy