________________
विलास. ३]
ध्वनिनिरूपणम्
हणयत्नं विनाऽपि मे सिध्ये [दि ] त्याशया मुहुः पश्यन्ती ( प्रहृष्यती ? ) स्यर्थः । अत्र प्रहर्षणालङ्कारो व्यज्यते ।
अत्र कर्कमितिपद्गतः श्वेताश्वकुलीरयोरपत्य ( रौपम्य ? ) ध्वनिः । योगशास्त्रवस्तुनिरूपितो यथा
समर्प्य योगं स्वमरिक्षितीशव्रजेषु वीरेन्द्रतनुजखङ्गः । प्राणानिलं हृत्कमलाच तेषामुत्कम्पमभ्यासयति क्षणेन ॥
--
अत्र क्षणेनाभ्यासयतीत्यनेनात्यन्त चतुर योगीन्द्राभेदः खने गम्यते । अत्र योगमितिपदगतो योगशास्त्रौपम्यध्वनिः । गान्धर्वनिरूपितो यथा -
दुर्विवादिस्वरारोह विधायी नञ्जभूपतेः । करवालः पूर्णरागध्रुवाभोगादिकल्पकः ॥
अत्र दुष्टविवादिनां रिपूणां स्वर्गारोहणदः, अन्यत्र दुर्विवादिनां दुष्टविरोघिस्वराणामारोह विधायी पूर्णरागाणां नित्यानुरागाणां ध्रुवाभोगो नित्यपरिपूर्तिः तत्कल्पकः । अन्यत्र पूर्णरागाणां ध्रुवागीतस्याभोगादीनाञ्च कल्पकः । तथा च करवालस्य गान्धर्वाभेदो गम्यत इति रूपकालङ्कारः । शब्दशक्तिमूलवस्तुध्वनिर्वाक्ये यथा
१ स्य OL
२७
स्वस्त्रेणसन्नुतगुणब्रज नञ्जराज
स्वाधीनभूपजनतां महिमाश्रयत्वम् । याऽशेषयत्नविधूताऽपि सुखेन नासी
देनां श्रियं च नियतं निभृतं वहस्व ॥
अत्र स्वाधीनराजसमूहतां महिमाश्रयत्वं याऽशेषयत्नविधृताऽपि सुखं नावर्त्तत तां श्रियं च निश्चलं वहस्वेत्याशंसारूपवस्तुनि प्रस्तुते या शेषयत्नविधृताऽपि सुखेन नासीत् तां महीं निभृतमाश्रयस्वेति भूप्रास्याशंसारूपं वस्तु व्यज्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com