SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ विलास. ३] ध्वनिनिरूपणम् । २५ एतौ द्वौ पदगतौ । वाक्यगतावपि द्वौ भवतः । अत एव लक्षणामूलाश्चत्वारो ध्वनयः । तत्र वाक्यगतार्थान्तरसङ्क्रमितोयथा पश्येमं पद्मपत्राक्षि दृश्यतेऽयं त्वया पुरः। कळलेकुलचन्द्राय यस्मै स्पृहयते मही ॥ इदं काञ्चन राजकन्यकां प्रति सखीवचनम् । अत्र अयं दृश्यत इत्यनन्तरमिमं पश्येति वाक्येन कथितार्थबोधनादनुपयुक्तेनानितरसाधारणमिमं पश्येत्यर्थान्तरसङ्क्रमणादस्मिन्नेव त्वयाऽनुरागः कार्य इति व्यज्यते । वाक्यगतात्यन्ततिरस्कृतो यथा नतानुकूलः किल नञ्जभूपः सद्यो दुरुक्तानि च सर्वथाऽपि । कथं सहेत प्रतिमल्लभूपाः प्रयान्ति तत्क्वापि वनस्थलानि ॥ इदं नञ्जराजभयेन विदेशजिगमिषून् विभून् प्रति तदमात्यवचनम् । अत्र प्रणामादिऋजूपाये नाराजे सर्वप्रकारेणापि शात्रवदुरालापासहनशीलत्वरूपार्थस्यानुपपत्त्या विपरीतलक्षणया सहत एवेत्यर्थो व्यज्यते । शक्तिरपि शब्दार्थगता द्विविधा । तत्र शब्दशक्तिः पदवाक्यगतत्वेन द्विविधा । प्रत्येक वस्त्वलङ्कारयोर्ध्वनौ शब्दशक्तिमूलाश्चत्वारः। अर्थशक्तिरपि स्वतःप्रौढोक्तिसिद्धा प्रत्येक पदवाक्यगतत्वेन दैविध्ये चतुर्विधा । वस्तुना वस्त्वलङ्कारयोरलङ्कारेणालङ्कारवस्तुनोलनावेकैकस्य चातुर्विध्येऽर्थशक्तिमूला रसादिध्वनिभिवाक्यपदपदैकदेशरचनावर्णगतैः पञ्चभिः सहैकविंशतिः । उभयशक्तिमूल एक इति शुद्धध्वनयस्त्रिंशत् । तत्र वस्त्वलङ्कारध्वनिः संलक्ष्यक्रमव्यङ्ग्यः रसाविनिरसंलक्ष्यक्रमव्यङ्गय इति विवेकः। तत्र शब्दशक्तिमूलो वस्तुध्वनिः पदे यथा अश्चत्काञ्चीमधिकविलसत्कुन्तलां चारुनीलां ___ काश्मीरेण द्विगुणरुचिभिभूषितां चाङ्गभाभिः। प्राप्तुं श्रेयः परममवनीपालधौरेयधत्तां स्निग्धां श्यामामपि वसुमती पाति नञ्जक्षितीन्द्रः॥ अत्र वसुमतीरक्षणरूपवस्तुनि प्रस्तुते विधिवत्परिणीतायाः कस्याश्चि. स्त्रियः संरक्षणरूपवस्तु व्यज्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy