SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ २४ नजराजयशोभूषणम् । [विलस. ३ अथ तृतीयो विलासः करुणारसकल्लोलकलितापाङ्गवीक्षणम् । कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ अथ ध्वनिविशेषा निरूप्यन्ते। ध्वनिस्तावद्विविधः । लक्षणामूलः शक्तिमूलश्चेति । एतावेवाविवक्षितवाच्यविवक्षितान्यपरवाच्यावित्युच्येते । तत्राद्योऽर्थान्तरसङ्क्रमितवाच्यात्यन्ततिरस्कृतवाच्यतया द्विविधः । अजहज्जहल्लक्षणामूलतयेति यावत् । अयमभिसन्धिः । आकाङ्कायोग्यतयोर्वाक्यार्थप्रतीतिहेतुत्वात्प्रयुक्तपदार्थस्यानुपयोगेऽनुपपत्तौ वा तयोरभावान्न वाक्यार्थस्फूर्तिरित्यर्थान्तरसङ्क्रमणात्यन्ततिरस्कारयोरवतारः । योऽर्थ उपपद्यमानोऽपि तावताऽनुपयोगात् नजि सूत्रवदुपयुक्तार्थान्तरवलने स्वयं न दृश्यते, सोऽर्थान्तरसङ्क्रमितवाच्यः । यथा स्फुरतोर्नचराजस्य कीर्तिपुञ्जप्रतापयोः । हिमांशुहरिश्वश्च वर्तेते वियदङ्कणे ॥ अत्र वर्तेते इति धातुना केवलवर्त्तमानस्यानुपयोगानरर्थक्येन वर्तमानरूपान्तरसङ्कमिततया कीर्तिप्रतापयोरेव सकलभुवनतमोनिवर्तनकमलकुव. लयोल्लसनादिधौरन्धर्य व्यज्यते । यः पुनरनुपपद्यमान एव कस्यचिदुपपन्नार्थस्य प्रतीति समर्प्य स्वयं निवतते सोऽत्यन्ततिरस्कृतवाच्यः । यथा नञ्जक्षितीन्द्रेण नवैविलासै रुल्लासिताया न कदापि तस्याः । अपि प्रियेणानुपदोपभुक्तं सौन्दर्यमेव स्फुटमव्य (प्य ?) लीकम् ॥ अत्र निष्फलत्वलक्षकालीकपदेन स्वार्थोऽत्यन्ततिरस्कृतः । तेन ननोपभोग एव सर्वासां सौन्दर्यसार्थक्यसंपादक इति व्यज्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy