________________
विलास.२]
काव्यनिरूपणम् ।
वाच्याद्यथा
नञ्जेन्द्रखगद्युतिभङ्गिभाजस्तमस्ततेनर्मपदं दिवापि । तापिच्छवाटी [ह] वधूटि वल्लीसौरभ्यचारो वलते समीरः॥ इदं पुराङ्गनामभिसारिका प्रति सखीवचनम् ।
इहैव क्रीडार्थ प्रविशेति वस्तु व्यङ्गयम् । प्रकरणाद्यथा
अनम्रदैत्या(हप्ता ?)न्धतमिस्रभानोनञ्जक्षितीन्द्रस्य भटा वयं स्मः ।
कुतो भुवि भ्राम्यत भो महीपाः स्वरक्षणोपायमुपाश्रयध्वम् ॥ अत्र भूभ्रमणे प्रयोजनं नास्तीति, अस्मानेव शरणं बजेति प्रकरणेन वस्तु व्यज्यते। चेष्टादिना यथा
श्रीनञ्जराजस्य गुणान्वराणां प्रस्तावनायां जननीसमक्षम् ।
नरेन्द्रकन्याः श्रवणैः पिबन्त्यो मुहुः पदाग्रेण महीं लिखन्ति ॥ अत्र पदाग्रेण महीं लिखन्तीति चेष्टया नञ्जराज एव तासामभिलाष इति वस्तु व्यज्यते । निर्विकाराद्यथा
तृणेषु दष्टेषु विरोधिवगैर्नचक्षितीन्द्रात्मजसैनिकेषु ।
न वीरवादो न धनुर्विकर्षो न भ्रूविभङ्गो न च गर्जितानि ॥ अत्र सैनिकानां विकाराभावकथनेन तृणचर्वणदर्शितदैन्यवृत्तिषु विरोधिवर्गेषु क्रोधोपशमो व्यज्यते । इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसरससाहित्यसम्प्रदायप्रवर्तकनरसिंहकविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे काव्यनिरूपणं
नाम द्वितीयो विलासः॥
१ विनम्र OL.
२ सम्भा OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com