SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विलास.२] काव्यनिरूपणम् । वाच्याद्यथा नञ्जेन्द्रखगद्युतिभङ्गिभाजस्तमस्ततेनर्मपदं दिवापि । तापिच्छवाटी [ह] वधूटि वल्लीसौरभ्यचारो वलते समीरः॥ इदं पुराङ्गनामभिसारिका प्रति सखीवचनम् । इहैव क्रीडार्थ प्रविशेति वस्तु व्यङ्गयम् । प्रकरणाद्यथा अनम्रदैत्या(हप्ता ?)न्धतमिस्रभानोनञ्जक्षितीन्द्रस्य भटा वयं स्मः । कुतो भुवि भ्राम्यत भो महीपाः स्वरक्षणोपायमुपाश्रयध्वम् ॥ अत्र भूभ्रमणे प्रयोजनं नास्तीति, अस्मानेव शरणं बजेति प्रकरणेन वस्तु व्यज्यते। चेष्टादिना यथा श्रीनञ्जराजस्य गुणान्वराणां प्रस्तावनायां जननीसमक्षम् । नरेन्द्रकन्याः श्रवणैः पिबन्त्यो मुहुः पदाग्रेण महीं लिखन्ति ॥ अत्र पदाग्रेण महीं लिखन्तीति चेष्टया नञ्जराज एव तासामभिलाष इति वस्तु व्यज्यते । निर्विकाराद्यथा तृणेषु दष्टेषु विरोधिवगैर्नचक्षितीन्द्रात्मजसैनिकेषु । न वीरवादो न धनुर्विकर्षो न भ्रूविभङ्गो न च गर्जितानि ॥ अत्र सैनिकानां विकाराभावकथनेन तृणचर्वणदर्शितदैन्यवृत्तिषु विरोधिवर्गेषु क्रोधोपशमो व्यज्यते । इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसरससाहित्यसम्प्रदायप्रवर्तकनरसिंहकविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे काव्यनिरूपणं नाम द्वितीयो विलासः॥ १ विनम्र OL. २ सम्भा OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy