________________
नभराजयशोभूषणम्।
[विलास. २ .. अत्र शकुन्तलेव गान्धर्व विवाहस्त्वयाऽपि कार्यः। स च तस्या इव तवापि सर्वजनसम्मान्यो भवेदिति बोध्यविशेषो ध्वन्यते । काकोर्ध्वनिहेतुत्वं यथा
रे रे विपक्षसचिवा भवतां वचांसि
नज़क्षितीन्द्रचरणं शरणं व्रजन्ति(जेति?)। श्रुत्वाऽपि भूरि बधिरोजनि यः स युष्मान्
निन्दत्यसौ न दुरहङ्कतिमात्मनीनाम् ॥ अत्र काका अद्य दुर्दशायां युष्मानिन्दति न स्वाहङ्कतिमिति भवन्तो युक्तार्थबोधकत्वान्न निन्द्याः, किन्तु स्वाहङ्कतिरेवेति वस्तु व्यज्यते । देशविशेषाद्यथा
शक्त्यादिवस्तुप्रचयं तु (यस्य?) वाचा
निर्माणहेतुत्वपरान्निबन्धान । नञ्जक्षितीन्द्रस्य सभां विशन्तो
विपश्चितः केऽपि न विश्वसन्ति ॥ अत्र नञ्जराजसभारूपदेशविशेषमहिना शत्यादिसामग्री विनाऽपि सर्वे कवयो भवन्तीति व्यज्यते । तेन च नाराजे भोजराजाधिक्यं व्यज्यते । कालविशेषो यथा
नक्षपचरणसेवारभसपराधीन रमण नतिरेषा।
बहुभाषिणी न चाहं मधुसमयः सोऽयमुत्सवो जगताम् ॥ अत्र मधुसमय इति कालविशेषनिर्देशेन नञराजसेवने त्वरितोऽपि भवानिदानीमेव मागमदिति प्रवासनिषेधो व्यज्यते । अन्यसन्निधानाद्यथा
रोषं न का वा कलयेत चित्ते
रोमाञ्चमालोक्य ममाग्र्यमङ्गे । अविस्मृता वीरपालसूनो
बहुप्रतापा बत भीषयन्ति ॥ अत्र बाहुप्रतापा भीषयन्तीत्यर्थस्य सन्निधानमहिना तजितोऽ(तन. नितोऽ?) यं रोमाञ्चः । ततो न कस्या अपि रोषावकाश इति व्यज्यते।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com