SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ २१ विलास.२] काव्यनिरूपणम् । अन्योन्यमेवं मुहुरालपन्त्यः पश्यन्ति नाक्षितिपं मृगाक्ष्यः ॥ अत्र नञ्जभूपतिं पश्यन्तीनां मृगाक्षीणां प्रसिद्धमन्मथप्रियाया रतेः प्रशंसनेन पुरतो दृश्यमाने मदनाभेदप्रतीतिर्जायत इति वस्तुनो व्यङ्गयस्य झटिति प्रतीतेः अगूढत्वादस्य गुणीभूतत्वम् । शब्दार्थोभयभेदेन चित्रं त्रिविधम् । शब्दचित्रं यथा नञ्जक्षोणिक्षिदध्यक्षरित्कौक्षेयको रणे। भूक्ष(भ्राज?)ते दृप्सहर्यक्षपक्षशिक्षणदक्षिणः ॥ अर्थचित्रं यथा नञ्जराजविपक्षौघदुर्गभ्रमणदुर्दशाम् । निरीक्ष्य निर्झरव्याजान्मुश्चन्त्यश्रूणि पर्वताः ॥ उभयचित्रं यथा साम्राज्यलक्ष्मीसहजानुराग प्रारभारधुर्यं प्रधनैकधैर्यम् । श्रीनाराजं श्रितकल्पभूजं __ श्रयन्ति भूपाः शमितावलेपाः॥ ध्वनिहेतवो वक्त्रादयः । तदुक्तम् "वक्ता बोध्यश्च काकुश्च देशः कालोऽन्यसन्निधिः । वाच्यं प्रकरणं चेष्टेत्याद्याः स्युर्ध्वनिहेतवः ॥" तत्र वक्तृविशेषस्य ध्वनिहेतुत्वं यथा-'भूयोऽस्मानि'त्यादि [२०५] । यद्यदृश्याञ्जनमदत्वा प्रयासि तर्हि दृप्तस्मरः तत्क्षणमेवास्मान् व्यापादयेदिति भूयो दर्शनमेव दुर्लभं भवेदिति वक्तृविशेषात् व्यज्यते। बोध्यविषेशाद्यथा कस्याश्चिदुर्वीपतिकन्यकाया नञ्जक्षितीन्द्रस्य विलोकनेन । उत्कण्ठितायाः कथयन्ति सख्यः शाकुन्तालादीनितिहासवादान् ॥ १ वाक्यं .. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy