________________
२१
विलास.२]
काव्यनिरूपणम् । अन्योन्यमेवं मुहुरालपन्त्यः
पश्यन्ति नाक्षितिपं मृगाक्ष्यः ॥ अत्र नञ्जभूपतिं पश्यन्तीनां मृगाक्षीणां प्रसिद्धमन्मथप्रियाया रतेः प्रशंसनेन पुरतो दृश्यमाने मदनाभेदप्रतीतिर्जायत इति वस्तुनो व्यङ्गयस्य झटिति प्रतीतेः अगूढत्वादस्य गुणीभूतत्वम् ।
शब्दार्थोभयभेदेन चित्रं त्रिविधम् । शब्दचित्रं यथा
नञ्जक्षोणिक्षिदध्यक्षरित्कौक्षेयको रणे।
भूक्ष(भ्राज?)ते दृप्सहर्यक्षपक्षशिक्षणदक्षिणः ॥ अर्थचित्रं यथा
नञ्जराजविपक्षौघदुर्गभ्रमणदुर्दशाम् ।
निरीक्ष्य निर्झरव्याजान्मुश्चन्त्यश्रूणि पर्वताः ॥ उभयचित्रं यथा
साम्राज्यलक्ष्मीसहजानुराग
प्रारभारधुर्यं प्रधनैकधैर्यम् । श्रीनाराजं श्रितकल्पभूजं
__ श्रयन्ति भूपाः शमितावलेपाः॥ ध्वनिहेतवो वक्त्रादयः । तदुक्तम्
"वक्ता बोध्यश्च काकुश्च देशः कालोऽन्यसन्निधिः ।
वाच्यं प्रकरणं चेष्टेत्याद्याः स्युर्ध्वनिहेतवः ॥" तत्र वक्तृविशेषस्य ध्वनिहेतुत्वं यथा-'भूयोऽस्मानि'त्यादि [२०५] । यद्यदृश्याञ्जनमदत्वा प्रयासि तर्हि दृप्तस्मरः तत्क्षणमेवास्मान् व्यापादयेदिति भूयो दर्शनमेव दुर्लभं भवेदिति वक्तृविशेषात् व्यज्यते। बोध्यविषेशाद्यथा
कस्याश्चिदुर्वीपतिकन्यकाया
नञ्जक्षितीन्द्रस्य विलोकनेन । उत्कण्ठितायाः कथयन्ति सख्यः
शाकुन्तालादीनितिहासवादान् ॥
१ वाक्यं ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com