SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ २० नञ्जराजयशोभूषणम् । सहर्ष पश्यन्ती स्मरमभिनवं नञ्जनृपतिं रतेर्लीलालक्ष्मीं भजति सुमुखी कामपि नवाम् ॥ यथा वा शोभासमुल्लसितकान्तितरङ्गिताङ्गयो नञ्जक्षमारमणचन्द्रमपाङ्गयन्त्यः । मुयन्ति मन्जु विहरन्ति च विभ्रमन्ति रज्यन्ति चापि विलसन्ति हसन्ति कान्ताः ॥ 'स नालिकेरपाकः स्यादन्तर्गूढरसोदयः ।' यथा- तारुण्योद्गमलासकेन सुतनोरने पुरो रञ्जिते तत्प्राप्सिस्फुट धर्म बिन्दुकलिकास्तन्वन् स्मरस्तावकः । लावण्यश्रियमेव विभ्रमवतीमुद्बोध्य चानर्त्तयन् अस्या मानसवृत्तिमाशु तनुते नवेन्द्र ते कौतुकम् ॥ अत्र न द्रागर्थप्रतिपत्तिः । पाकभेदा यथासम्भवमूह्याः । अथ व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन त्रिविधं काव्यम् । व्यजयस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते । अप्राधान्ये मध्यमं काव्यं गुणीभूतव्यङ्ग्यमिति कथ्यते । व्यङ्ग्यस्यास्फुटत्वेऽधमं काव्यं चित्रमिति कथ्यते । ध्वनिर्यथा भूयोऽस्मानवलोकितुं यदि मतिः कान्त त्वया दीयतामद्यैवैकमदर्शनाञ्जनममुं जानासि दृप्तं स्मरम् । इत्थं स्वस्ववधूजनस्य वचनान्याकर्ण्य नम्रानना जाता नञ्जनरेन्द्रदर्शन समुद्युक्ता विदेश्या नृपाः ॥ व्यङ्ग्यस्य प्राधान्यं नाम वाच्याद्रम्यतया शब्दैर्निगृह्य विवक्षितत्वम् । तदितरत्वमप्राधान्यमत एव गुणीभावनामा । यथा- स्थाने रतिः सा युवतीषु मान्या यस्यां स्वयं स्निह्यति चित्तमस्य । [ विलासः २ १ नृत्यन्ति OL २ तत्प्राप्त OL. ३ तृप्ति CL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy