SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ बिलास. २] यथा C यथा वा यथा यथा नञ्जक्षोणीन्द्र सैन्यक्षणमथितमदोच्चण्डशुण्डालकुम्भप्रोद्यत्स्वच्छन्दचेलाञ्चलमिलितनवस्थूलमुक्ताफलानि । निर्वर्ण्यागण्यलभ्यं फलमिति हि मिथो बोधयन्त्यो निमित्तैवल्गन्त्युद्वेलहर्षाः सुरपुरि सुदृश: प्रेयसः प्रातुकामाः ॥ अथ शय्या यथा काव्यनिरूपणम् । भेरी भाङ्कारनिर्भिन्नगर्भाविर्भवदर्भकाः । भेजिरे नञ्जभूभर्तुर्भूभृद्भूमिमरिस्त्रियः ॥ "पाञ्चाली रीतिर्वैदर्भीगौडीरित्युभयात्मिका" | जेतुर्न महीपतेर्जलधरश्यामां कृपाणीलतां वेगोत्पाटितकुञ्जरव्रजशिरः संलीढ मुक्ताफलाम् । पश्यद्भिः प्रतिपक्षपार्थिवभटैः सङ्ग्रामलीलोद्भदैदंष्ट्राकोटिकरालवक्त्रकुहरा काली मुहुः स्मर्यते ॥ " या पदानां पराऽन्योन्यमैत्री शय्येति कथ्यते ।” शाणोत्तेजितपद्मरागशकलप्राग्भार शोभाघराः फुल्लकिंशुककोरकप्रसृमरच्छायाधरीसोदराः । प्रत्यूषोन्मिषदब्जिनीपरिवृढप्रौढप्रभाडम्बराः प्रत्यग्राः प्रसरन्ति नञ्जनृपतेर्जेतुः प्रतापोर्मयः ॥ अथ पाकस्वरूपं निरूप्यते । “अर्थगम्भीरिमा पाकः स द्विधा हृदयङ्गमः । द्राक्षापाको नालिकेर पाकञ्च प्रस्फुटान्तरः ॥ द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः । " सलज्जं सौत्सुक्यं प्रणयमधुरं प्रेमललितं सवैलक्ष्योदारं स्मितविकसितालोकनमपि । १ केकरOL. Shree Sudharmaswami Gyanbhandar-Umara, Surat १९ www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy