SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास. १ विशेषनिरपेक्षतया केवलसन्दर्भ सौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः । सन्दर्भस्यातिमृदुत्वं नाम असंयुक्तकोमलवर्णवन्धत्वम् । अति. प्रौढत्वं नाम परुषवर्णविकटबन्धनत्वम् । संयुक्तमृदुवर्णेषु ईषन्मृदुत्वम् । अविकटबन्धपरुषवर्णेषु ईषत्प्रौढत्वम् । ततः "अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणौ रसौ । अत्युद्धतरसौ रौद्रवीभत्सौ परिकीर्तितौ ॥ हास्यशान्ताद्भुताः किश्चित् सुकुमाराः प्रकीर्तिताः । ईषत्प्रौढौ समारव्यातौ रसौ वीरभयानको ॥" यत्र शृङ्गारकरुणरसावतिकोमलसन्दर्भेण वयेते तत्र कैशिकी । यत्र रौद्रवीभत्सावतिप्रौढेन सन्दर्भेण निरूप्येते तत्रारभटी । यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण तेन समर्थ्यन्ते तत्र भारती । यत्र नातिप्रौढौ वीरभयानको नातिप्रौढेन सन्दर्भेण प्रतिपाद्यते तत्र सात्वती। अथ रीतीनां स्वरूपमुदाहरणं च कथ्यते । "रीतिर्नाम गुणाश्लिष्टपदसन्दर्भता मता"। सा त्रिधा-वैदर्भी गौडी पाञ्चाली चेति । "बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता। नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥" यथा निर्जितारातिवर्गस्य नञ्जराजशिखामणेः । जातं कीर्तिप्रतापाभ्यां पाटलं भुवनत्रयम् ॥ यथा वा कामाभिरामवपुषः कळलेकुलेन्दो नञ्जक्षमापतिमणेर्ललितान् विलासान् । कन्दर्पकार्मुकगुणस्य च धीरनादा नाकर्णन्ति युगपन्नरपालकन्याः ॥ "ओजाकान्तिगुणोपेता गौडीया रीतिरिष्यते ।" १.सङ्घटनात्मता OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy