________________
नजराजयशोभूषणम् ।
[विलास. १ विशेषनिरपेक्षतया केवलसन्दर्भ सौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः । सन्दर्भस्यातिमृदुत्वं नाम असंयुक्तकोमलवर्णवन्धत्वम् । अति. प्रौढत्वं नाम परुषवर्णविकटबन्धनत्वम् । संयुक्तमृदुवर्णेषु ईषन्मृदुत्वम् । अविकटबन्धपरुषवर्णेषु ईषत्प्रौढत्वम् । ततः
"अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणौ रसौ । अत्युद्धतरसौ रौद्रवीभत्सौ परिकीर्तितौ ॥ हास्यशान्ताद्भुताः किश्चित् सुकुमाराः प्रकीर्तिताः ।
ईषत्प्रौढौ समारव्यातौ रसौ वीरभयानको ॥" यत्र शृङ्गारकरुणरसावतिकोमलसन्दर्भेण वयेते तत्र कैशिकी । यत्र रौद्रवीभत्सावतिप्रौढेन सन्दर्भेण निरूप्येते तत्रारभटी । यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण तेन समर्थ्यन्ते तत्र भारती । यत्र नातिप्रौढौ वीरभयानको नातिप्रौढेन सन्दर्भेण प्रतिपाद्यते तत्र सात्वती। अथ रीतीनां स्वरूपमुदाहरणं च कथ्यते ।
"रीतिर्नाम गुणाश्लिष्टपदसन्दर्भता मता"। सा त्रिधा-वैदर्भी गौडी पाञ्चाली चेति ।
"बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता।
नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥" यथा
निर्जितारातिवर्गस्य नञ्जराजशिखामणेः ।
जातं कीर्तिप्रतापाभ्यां पाटलं भुवनत्रयम् ॥ यथा वा
कामाभिरामवपुषः कळलेकुलेन्दो
नञ्जक्षमापतिमणेर्ललितान् विलासान् । कन्दर्पकार्मुकगुणस्य च धीरनादा
नाकर्णन्ति युगपन्नरपालकन्याः ॥ "ओजाकान्तिगुणोपेता गौडीया रीतिरिष्यते ।"
१.सङ्घटनात्मता OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com