________________
नजराज्यशोभूषणम् ।
[ विलास. २
अत्र नराजार्जुनयोरभेदोऽध्यवसीयते । विषय विषयिणोरभेदप्रतिपत्तिरारोपः । विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः ।
१६
अथ व्यञ्जनावृत्तिः । अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयशब्दव्यापारो व्यञ्जनावृत्तिः । सा त्रिधा शब्दार्थोभयमूलकत्त्वेन । तत्र शब्दशक्तिमूला यथा
सर्वतोमुखसंसिद्धिशुक्तिभृत्काण्डभूतलम् ।
आलोक्य नञ्जराजस्य सम्भ्रान्तं राजहंसकैः ॥
अत्र राजहंसकसर्वतोमुखशुक्तिकाण्डभूशब्दानामर्थप्रकरणादिना राजश्रेष्ठसर्वव्यापिगतिविशेषावर्त्तवाजिपराणां वाचकत्वे नियन्त्रितेऽपि शब्दशक्तिमूलया हंसविशेषसलिलमुक्ताकोशजलप्रदेशप्रतिपत्तिर्यया जायते सा व्यञ्जना । अर्थशक्तिमूला यथा
दिक्चक्रयात्रासन्नद्धे नञ्जराजशिखामणौ ।
विद्राविता विपक्षौघैः सिंहाः शैलगुहान्तरात् ॥
अत्र विपक्षौघाः पर्वतगुहान्तरं प्राप्ता इति व्यङ्ग्यम् । नात्रानुमानेन तत्प्रतीतिः । व्यङ्ग्यव्यञ्जकयोर्नियत साहचर्याभावात् नापि शब्दशक्तिः । प्रकृतशब्देषु यस्य कस्यचिच्छन्दस्य विपक्षवृत्तिपर्वतगुहाधिकरणत्वाबोधकत्वात् । तस्मादर्थशक्तिमूलकं व्यञ्जनाख्यव्यापारान्तरमवश्यं स्वीकार्यम् ।
उभयशक्तमूला यथा
विष्वक्सेनार्जितख्यातिविक्रमाक्रान्तविष्टपः ।
देवराजानुजो भाति श्रियं पुष्यन्निरन्तरम् ॥
अत्र उभयशक्तिमूलको नञ्जराजश्रीशयोरभेदो बोध्यत इत्यवधेयम् । अथ प्रसङ्गात्कविसमयसिद्धाः कैशिक्यादयो निरूप्यन्ते । " अत्यन्तसुकुमारार्थसन्दर्भा कैशिकी मता । "
यथा-
ललितगुणनिकायं राज्यलक्ष्मीविधेयं
कळुलकुलवरेण्यं भूभुजामग्रगण्यम् । नवमिव सुमचापं नञ्जभूपं विलोक्य स्मरशरविवशाङ्गी काचिदासीलताङ्गी ॥ अत्युद्धतार्थसन्दर्भा वृत्तिरारभटी स्मृता ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com