SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ नजराज्यशोभूषणम् । [ विलास. २ अत्र नराजार्जुनयोरभेदोऽध्यवसीयते । विषय विषयिणोरभेदप्रतिपत्तिरारोपः । विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । १६ अथ व्यञ्जनावृत्तिः । अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयशब्दव्यापारो व्यञ्जनावृत्तिः । सा त्रिधा शब्दार्थोभयमूलकत्त्वेन । तत्र शब्दशक्तिमूला यथा सर्वतोमुखसंसिद्धिशुक्तिभृत्काण्डभूतलम् । आलोक्य नञ्जराजस्य सम्भ्रान्तं राजहंसकैः ॥ अत्र राजहंसकसर्वतोमुखशुक्तिकाण्डभूशब्दानामर्थप्रकरणादिना राजश्रेष्ठसर्वव्यापिगतिविशेषावर्त्तवाजिपराणां वाचकत्वे नियन्त्रितेऽपि शब्दशक्तिमूलया हंसविशेषसलिलमुक्ताकोशजलप्रदेशप्रतिपत्तिर्यया जायते सा व्यञ्जना । अर्थशक्तिमूला यथा दिक्चक्रयात्रासन्नद्धे नञ्जराजशिखामणौ । विद्राविता विपक्षौघैः सिंहाः शैलगुहान्तरात् ॥ अत्र विपक्षौघाः पर्वतगुहान्तरं प्राप्ता इति व्यङ्ग्यम् । नात्रानुमानेन तत्प्रतीतिः । व्यङ्ग्यव्यञ्जकयोर्नियत साहचर्याभावात् नापि शब्दशक्तिः । प्रकृतशब्देषु यस्य कस्यचिच्छन्दस्य विपक्षवृत्तिपर्वतगुहाधिकरणत्वाबोधकत्वात् । तस्मादर्थशक्तिमूलकं व्यञ्जनाख्यव्यापारान्तरमवश्यं स्वीकार्यम् । उभयशक्तमूला यथा विष्वक्सेनार्जितख्यातिविक्रमाक्रान्तविष्टपः । देवराजानुजो भाति श्रियं पुष्यन्निरन्तरम् ॥ अत्र उभयशक्तिमूलको नञ्जराजश्रीशयोरभेदो बोध्यत इत्यवधेयम् । अथ प्रसङ्गात्कविसमयसिद्धाः कैशिक्यादयो निरूप्यन्ते । " अत्यन्तसुकुमारार्थसन्दर्भा कैशिकी मता । " यथा- ललितगुणनिकायं राज्यलक्ष्मीविधेयं कळुलकुलवरेण्यं भूभुजामग्रगण्यम् । नवमिव सुमचापं नञ्जभूपं विलोक्य स्मरशरविवशाङ्गी काचिदासीलताङ्गी ॥ अत्युद्धतार्थसन्दर्भा वृत्तिरारभटी स्मृता । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy