SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विलास. २] काव्यस्वरूपनिरूपणम् । न्यारोपितशब्दव्यापारो लक्षणा । सा द्विविधा सम्बन्धनिबन्धना सादृश्यनिबन्धना चेति । तत्राद्या द्विविधा जहद्वाच्या अजहद्वाच्या चेति । द्वितीयाऽपि द्विविधा सारोपा साध्यवसाया चेति । तत्र जहदाच्या यथा कळलेकुलरत्नस्य नाराजशिखामणेः जातं कीर्तिप्रतापाभ्यां पाटलं भुवनत्रयम् ॥ धारया करवालस्य विजिताः सकला दिशः । अत्रामूर्तानां दिशां विजयासम्भवात् दिकशब्देन दिक्षु विद्यमाना राजानो लक्ष्यन्ते । यत्र शब्दः । स्वार्थगतक्रियासिद्धये स्वार्थापरित्यागेन विशिष्टार्थान्तरं लक्षयति तत्राजहराच्या। यथा प्रेषितान् नाराजेन कुन्तान् वीक्ष्य क्रुधाऽऽगतान् । स्पर्धा दिगन्तानभितो लीयन्ते चकिता भृशम् ॥ अत्र कुन्तशब्दः स्पर्द्धाशब्दश्च क्रमेण कुन्तविशिष्टान्स्पर्धाविशिष्टांश्च लक्षयत इत्यजहद्वाच्येयम् । सारोपा लक्षणा यथा सङ्गामाङ्गणसत्वरप्रतिचलद्धोटीखुराघन क्षुण्णक्षोणिभवं पिधानमरुणं भानोर्यदासीद्रजः । ईहे तत्किल वीरनञ्जनृपतेस्तेजःसवित्रा जितः प्रायः पद्मसुहृन्नवां यवनिकां धत्ते हिया केवलम् ॥ यथा वा नञ्जक्ष्मापः कल्पभूजस्तदीयो बाहुः शाखा तस्य तत्खड्गयष्टिः। तत्संलग्ना वल्लिका तत्मरूढा कीर्तिस्फूर्तिस्तत्प्रसूनोद्गमश्रीः ॥ अत्र नञ्जराजतद्भुजखड्गयष्टिकीर्तीनां कल्पभुजशाखावल्लिप्रसूनोद्गमश्रियां च यथाक्रममभेदप्रतीतेः सारोपलक्षणेयम् । साध्यवसायलक्षणा यथा जातः सोऽभूद्विश्रुते सौम्यवंशे पार्थः पृथ्वीमण्डलोद्दण्डशौर्यः । चित्तोल्लासो यस्य धर्मे महीयान् प्राप्तो भूपेष्वाञ्जनेयध्वजं यः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy