________________
१४
नञ्जराजयशोभूषणम् ।
अथ द्वितीयो विलासः
तत्राद्या था -
करुणारसकल्लोलकलितापाङ्गवीक्षणम् । कन्दर्पजनकं धाम कल्याणानि करोतु मे ॥
अथ काव्यस्वरूपं निरूप्यते । कविसमयानुरोधेन निबद्धौ शब्दार्थों काव्यम् । अतः कमनीयशब्दो वाऽर्थो वा काव्यमित्यपास्तम् । कुसुमसौरभन्यायेन सम्भूयाह्लादकारित्वात् । अत एव प्रभुनिदेश इव शब्देकप्रधाने वेदे सुहृदादेश इवार्थैकप्रधाने पुराणादौ च नातिव्याप्तिः कविसमया [न] नुरोधित्वात्तयोः । नदीषु पद्मोत्पलानि सरोमात्रे हंसा पर्वतमात्रे सिंहशरभा इत्यादिद्रव्यकल्पनम्, यशोहंसादौ अवदातत्वम्, प्रतापशृङ्गारादौ अरुणत्वमित्यादिगुण कल्पनम्, चकोरेषु चन्द्रिकापानमित्यादि कियाकल्पनम्, व्यञ्जनारूपशब्दव्यापारकल्पनञ्श्चेति कविसमयः । तथा च व्यञ्जनया प्रेयस्युपदेश इव रसिकजनमनोरञ्जनेनैव कृत्ये प्रवर्त्तयति इति यल्लोकोत्तरवर्णन । निपुणस्य कवेः सरसशब्दार्थसङ्घटनात्मकं कर्म तत् काव्यम् । वाचकलक्षकव्यञ्जकत्वेन त्रिविधं शब्दजातम् । वाच्यलक्ष्यव्यञ्जकत्वेनार्थजातमपि त्रिविधम् । अभिधालक्षणाव्यञ्जनारव्यास्तिस्रः प्रवृत्तयः । तत्र सङ्केतितार्थगोचरः शब्दव्यापारोऽभिधा, सा द्विविधा रूढिपूर्विका योगपूर्विका चेति ।
जनयति जगतः कुतुकं कळुलेकुलमत्र येन नञ्जविभुः । समजनि सकलमहीपतिमकुटतटे रत्न रञ्जितपदाब्जः ॥
अत्र सर्वे शब्दा रूढाः ।
योग पूर्विका यथा
[ विलास. २
लीलया नञ्जभूपाले दोर्भ्या बिभ्रति मेदिनीम् । भजते भुजगाधीशो भोगिनामग्रगण्यताम् ॥
सुखिनामग्रगण्य इति योगार्थाभ्युपगम पुरस्कारेण भोगिनामग्रगण्य इति शब्दप्रवृतिरिति योगपूर्विकेयमभिवा । शक्यार्थस्यानुपपत्या तत्सम्बन्धि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com