SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ विलास. १] नायकनिरूपणम् । यथाक्रममुदाहरणम् यन्नामस्तुतितो गलन्ति सहसा गर्भा रिपोर्योषितां यस्यौदार्यकथास्मृतौ रविसुतः केनापि नाद्रीयते । सञ्जातं कळले कुलेऽतिविमले येनेन्दुनेवाम्बुधौ तं नञ्जक्षितिपाललोकतिलकं स्तोतुं प्रगल्भेत कः ॥ धाता येन सुताविलोकन विधौ चापल्यमापादितो नीतः श्रीपतिरप्यसो भुवि चिरं गोपाङ्गनाभ्यः स्पृहाम् । किं भूयः कथनेन सर्वजगतीदुर्लड्यदार्विक्रमः कामः सोऽपि वशंवदोऽनुसरति श्रीनञ्जभूवल्लभम् ।। एवं वर्णनमुत्पाद्ये नायके न घटते । तस्य सर्वलोकप्रसिद्ध्यर्थं कुलशीलादयो वर्णयितुमेवोचिताः । स्वतः सिद्धे तु नायके दैविध्यमपि सम्भवति । तस्य कुलादीनां प्रसिद्धत्वात् । कविभिर्षलवत्प्रतिपक्षविजयवर्णनं युक्तम् । एवं स्वतःसिद्धत्वोत्पाद्यत्वभेदेन नायके दैविध्यम् । तत्र च "धीरोद्धते यथा रौद्रो वर्ण्यते बाह्यसम्भ्रमैः । यथा च धीरललिते शृङ्गारो बहुभाववान् ॥ न धीरोदात्तविषये तत्तथा वर्ण्य मिष्यते । कार्यतो रससम्पूर्तिस्तस्मिन्नप्युचितक्रिया ॥ हास्यादीनां तथाऽन्येषां रसानामपि कीर्तनम् । मन्दोद्यमानुभावस्य धीरोदात्ते तु नेतरे ॥" सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयकप्रबन्धानामतिशयास्पदत्वम् । इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसर. ससाहित्यसम्प्रदायप्रवर्तकनरसिंहविविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे नायकनिरूपणं नाम प्रथमो विलासः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy