SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास. १ अत्र निर्झराश्चापव्याजेन मेरौ पुरहरस्यायं स्वत्वं वितेनुरित्यनेन ननभूपतेरतीव शिवभक्तिः, अनितरसाधारणमौदार्यश्च व्यज्यते । तच्च काव्यं शब्द-अर्थ उभयस्फुरणेन त्रिविधम् । तत्राद्यं यथा शस्त्राशस्त्रिप्रवृद्धप्रथनपटुभटाटोपसङ्घटनोद्य निःसाणारावधावत्खचरपरिवृढाढौकितोत्कर्षभाजः। जैत्रप्रारम्भजम्भद्धजपटलपटात्कारचञ्चत्पतङ्गात् गाङ्गेयैकप्रतापाचकितमरिकुलं नञ्जभूपालमौलेः ॥ अर्थस्फुरणं यथा शरदि समिति नचक्ष्माधिपोज्जृम्भजैत्र ध्वजपटवलमानं वानरेन्द्रं विलोक्य । नवसमुदितरामालापजालेन नूनं कलयति नलिनीयं कौतुकं पद्मबन्धोः ॥ अत्र रामालापजालेनेति पदेन प्राकृतजलविहङ्गविशेषनिनाद इव अप्राकृत. रघुवीरप्रतिपादकसूक्तिरभिधीयते । तथा च शरत्समयदिग्विजययात्रासन्नद्धचश्चलध्वजकलितहनूमति परमार्थबुद्ध्या तत्कीर्तिरविकबलनत्रस्ता पत्युः पद्मबन्धोः शरीररक्षार्थ रामचन्द्रप्रतिपादकं स्तोत्रैमङ्गलं कलयतीत्यर्थश्लेषप्राणितोत्प्रेक्षया लभ्यते। उभयस्फुरणं यथा सङ्कामोद्यतनश्चभूपतिकरभ्राम्यत्कृपाणोल्लसद धाराधारितकन्धराः सरभसं प्राप्ताः पुरीमामरीम् । सेवन्ते कतिचिनवेन यवना:स्वर्वाररामाकुचो दञ्जन्नव्यनखक्षतानि जनितप्रत्यक्षचन्द्रभ्रमाः ॥ एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम् । शब्दार्थयोरपि पुण्यश्लोकचरित्रानुवर्णनेन हृदयानन्दित्वम् । ततो नाय. कस्यैव काव्ये प्राधान्यम् । "कुलाचारयश:शौर्यश्रुतशीलादिवर्णनम् । क्रियते नेतुरेवं यत्तदत्र बहुसम्मतम् ॥ अथवा प्रतिपक्षस्य वर्णयित्वा बहून् गुणान् । तज्जयानायकोत्कर्षकथनश्च कचिन्मतम् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy