SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विलास. १] नायकनिरूपणम् । विश्रान्तं रदनच्छदे विहसितं भूषायते गण्डयोः प्रायो नञ्जनृप त्वया प्रियतमा चातुर्यमध्यापिता ॥ प्रौढा यथा शश्वत्प्रेमसमीरितैः कतिपयैर्भावैरभिव्यञ्जितै मोहोद्भेदतरङ्गितै रसभरोन्मित्रैः कटाक्षाङ्करैः । स्वैरोत्तम्भितपुष्पकार्मुकशरानङ्करयन्ती स्मरान् कामं नञ्जनपाललोकतिलकं कान्ता समालोकते ॥ एवमवान्तरभेदा अपि यथासम्भवमूह्याः । गुणालङ्कारे (रौ ? ) [ स ] दृशे अलङ्कारे (यें ?) चरितार्थों । यस्यालकाराश्रयत्त्वं तदेव लोकरीत्याऽलङ्कार्य भवति । ततो गुणालङ्काराणां काव्यमाश्रय इति तदेवालङ्कार्यम् । कचिद्रसस्य प्राधान्यम् । कचिदलङ्कारस्य प्राधान्यम् , कचिवस्तुनः प्राधान्यम् । तत्र रसप्राधान्यं यथा मुग्धं मुखं मुकुरबिम्बनिभौ कपोलौ लीलाविलासकलितानि विलोकनानि । मूर्तिश्च हेमलतिका तदिदं मृगाक्ष्या रूपं हि नानृपचन्द्र तवानुरूपम् ॥ एतन्नञराज प्रति सखीवचनम् । अत्र सौन्दर्यााद्दीपनविभावादिरसपोषकसामग्रीकथनेन शृङ्गाररसः परिपुष्टो व्यज्यते । अलङ्कारप्राधान्यं यथा विराजमाने नजेन्द्रे कीर्तिपुरैर्निरन्तरम् । चकोरी कैरवैः साकं परमामोदमश्नुते ॥ अत्र नञ्जराजकीर्तिपुळे चन्द्रत्वभ्रान्तिमूलकचकोरकैरवाणामामोदपरिग्रह इति भ्रान्तिमदलङ्कारो व्यज्यते। वस्तुप्राधान्यं यथा पुरहरहृदयाजानन्दकारिण्यजत्रं वितरति धनपुझं ननभूपालचन्द्रे । झटिति कनकशैले निर्झराश्चापदम्भात्कुसुमविशिखजेतुः स्वत्वमयं वितेनुः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy