SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १० नजराजयशोभूषणम् । [विलास. १ ध्वत्यर्थं चिरयत्सु नञ्जनृपतेः सेवासु सर्वास्वपि । तन्मार्गकदृशस्तदीयसुदृशस्ताम्यन्ति कामेषुभि विद्धास्तत्प्रतिबद्धसान्द्रहृदयव्याकीर्णरोमोद्गमाः ॥ अत्र नञ्जराजसेवागतानां सामन्तमहीपतीनां कान्तासु प्रोषितभर्तृकत्वमवगन्तव्यम् । अभिसारिका यथा समरमुग्वनिशानां योधमर्मान्धकारे प्रचलति करिकोटीबन्धजीमूतसङ्के । करविधृतकृपाणीदूतिकाकृष्यमाणा भजति नरवरेण्यं स्वैरिणीवाहितश्रीः ॥ अत्र नाराजरिपुश्रियोऽभिसारिकात्वं व्यक्तमेव । आसां नायकघटने सहायाः। "दूती दासी सखी चैव धात्रेयी प्रातिवेशिनी। लिङ्गिनी शिल्पिनी स्वा च सहायाः परिकीर्तिताः ॥" एतासां स्वरूपमुदाहरणं च प्रसिद्धम् । सङ्केपेण नायिका त्रिविधा । मुग्धा मध्या प्रगल्भा चेति ॥ " उदयद्यौवना मुग्धा लज्जाविजितमन्मथा । लज्जामन्मथमध्यस्था मध्यमोदितयौवना ॥ स्मरमन्दीकृतव्रीडा प्रौढा सम्पूर्णयौवना।" तत्र मुग्धा यथा चित्ते धत्ते कमपि भवति प्रेम लजावलीढं रागाबुद्धान् स्थगयति बलादन्तरेवाशु भावान् । पृष्टाऽस्माभिः किमिति नमयत्याननं सा न जाने क्षिप्रं ननक्षितिवर कथं स्यात्तया तेऽभिसन्धिः ॥ मध्यमा यथा प्रागल्भ्यं विवृणोति कोऽपि शनकैर्वाचां क्रमे वक्रिमा दृश्यन्ते च दृशोनिकाममधुराः केचिदिलासाकुराः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy