SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ विलास. १] नायकनिरूपणम् । यथा वा केलीगृहं मृगमदैरधिवास्यमानं सम्प्राप्य सस्मितसखीजनभूषिताङ्गी । क्षिप्रं समीपमुपसेदुषि ननभूपे प्रीतिं दृशा प्रियतमा प्रकटीकरोति ॥ विरहोत्कण्ठिता यथा आहारे न मतिनवा मृदुतरे तल्पेऽपि कालोचिते व्यालापे न कुतूहलं न च सखीसंभाषणेऽप्यादरः। आसक्तिने पुरोगतेष्वपि दृशोस्तस्यां परं वर्त्तते ___ कान्ते दिग्विजयेच्छया चिरयति श्रीनञ्जभूवल्लभे ॥ विपलब्धा यथा- । नाथो मां परितोषयन्निव नवैः प्रेमप्रभेदैरसौ सङ्केतं सदनं च किञ्च तदिति व्याहृत्य सक्तादरः। हन्ताऽयं त्वरयत्यमुं प्रियसखं शौर्यश्रिया (यं ?) दीक्षयन ___ आनेतुं कथमद्य नञ्जनृपतिस्तादृग्गुणाडम्बरः॥ खण्डिता यथा तस्मात्केवलकैतवैरभिनवैरामीणयस्यद्य मां ज्ञातं साधु तवैव नञ्जनृपते तत्तादृशं कौशलम् । किं प्राप्तोऽस्यधुनैव सैव पुनरप्यन्वेषणीया त्वया __ या सन्दर्भविशेषबन्धरसिका प्राणप्रिया साहिती॥ कलहान्तरिता यथा रोषं दूरय तूर्णमाश्रय नृपं श्रीनञ्जभूवल्लभं __ व्याहारैरलमीदृशैरिति सखीवाचस्त्वया नादृताः। किं त्वं पश्यसि साधु चित्रलिखितं तं पक्ष्मपातालसा सोऽयं किंनु दधाति तेऽधररसं किं वा समालिङ्गति ॥ प्रोषितभर्तृका यथा काश्मीराङ्गकलिङ्गघूर्णकुकुरक्षोणीशचूडामणि १ नरसा OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy