________________
नजराजयशोभूषणम् ।
[विलास. १ अत्र आद्यो यथा
नञ्जराजकरपद्मलालितः खड्ग एष विमतक्षमाभृताम् ।
अंसदेशमुपयाति तद्गतां मानयन्निव महीं स्वभूपतेः ॥ अत्र नाराजखड्गस्य शात्रवमहीसङ्घहने पीठमद्दत्वमवगन्तव्यम् । एव. मन्येऽप्यूह्याः । अथाष्टविधशृङ्गारनायिकाः कथ्यन्ते । यथा
"स्वाधीनपतिका चैव तथा वासकसज्जिका । विरहोत्कण्ठिता चैव विप्रलब्धा च खण्डिता॥ कलहान्तरिता चैव तथा प्रोषितभर्तृका। तथाऽभिसारिका चेति क्रमाल्लक्षणमुच्यते ॥ स्वाधीनपतिका सातु यां न मुञ्चति वल्लभः । भूषितात्मगृहा कान्तागमे वासकसजिका ॥ चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः । विप्रलब्धा तु सङ्केतं गताऽन्यासक्तवल्लभा ॥ ज्ञातेऽन्यासङ्गविकृते खण्डितेाकषायिता। कलहान्तरिता पश्चात्तता निर्वाप्य नायकम् ॥ देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका।
रागाभिसरेत्कान्तं सङ्केते साऽभिसारिका "| तत्र स्वाधीनपतिका यथा
आलापैरधिकैरलं नवनवैरालि त्वयाऽसौ कियान्
नेतव्यः समयस्तदत्रभवती वारान् कति प्रार्थये । आगच्छत्यधुनैव नञ्जनूपतिर्मामेव भावे वहन
किन्तु त्वामपि सामि सम्प्रति बहूकत्तुं प्रयत्नो मम ॥ वासकसज्जिका यथा
विलोक्य मणिदर्पणे सकुतुकं मुखाम्भोरुहं
ललाटभुवि चित्रकं मकरपत्रिकां गण्डयोः । विलिख्य नवभूषणैरपि विभूषयन्ती वपुः प्रिया समवलोकते सरणिमेव नाप्रभोः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com