SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विलास. १] नायकनिरूपणम् । एकायत्तोऽनुकूलः स्यात्समोऽनेकत्र दक्षिणः ॥ व्यक्तापराधो धृष्टः स्याद्गुढविप्रियकृच्छठः । ” इति । तत्र एकायत्तत्वम्-एकस्यां प्रेयस्यामत्यन्तानुरागेण वर्तमानत्वम् । यथा नास्मान्मुश्च परिष्वजस्व दयित त्वं मे परं जीवितं स्वामिन्नीहशनिर्दयोऽसि विषमः कामः शरैः कृन्तति । इत्येवं बहुसुन्दरीभिरभितः सम्प्रार्थितोऽपि स्वयं धीरो नञ्जनृपः कयाऽपि सुदृशा राज्यश्रिया जीवति ॥ अनेकासु कान्तास्वेकरूपेण स्नेहानुवर्तित्वं नायके ददिणत्वम् । यथा धम्मिल्ले नवमल्लिकाः स्तनतटे पाटीरचर्चा गले __ हारं मध्यतले दुकूलममलं दत्वा यश कैतवात् । स प्राकदक्षिणपश्चिमोत्तरदिशाः कान्ताः समं लालयन् __ आस्ते निस्तुलचातुरीकृतपदः श्रीनञ्जराजाग्रणीः ॥ नायके शष्ठत्वं गूढविप्रियकारित्त्वम् । यथा वृत्तिर्मानसि कीमुधा विषयिणी व्यापाररिक्ता मति दृष्टिः केवलदर्शनैकफलदा छौकतानं वचः । आसक्तिः क तवास्ति मादृशजने हा वश्चिताऽस्मि त्वया स्वामिन् नञ्जमहीप काऽपि निवसेद्धन्या मदन्या प्रिया ॥ अत्र हे नञ्जमहीप ! मादृशजने तवासक्तिः कास्तीत्यनेन अन्यस्यां तवासक्तिर्यथा तथा मय्यप्यस्तीति यथा भ्रान्ता स्यां तथा कतिपयसैल्लापदर्शनादीनि चिह्नान्येतावन्तमनेहसमभिनीतवानसीति गूढविप्रियत्त्वं व्यज्यते । व्यक्तापराधकारित्त्वं नायके धृष्टत्वम् । यथा आक्रान्तं तद्वपुरतिभृशं सादरं राज्यलक्ष्म्या __ वाण्या वक्त्रं भुजपदमपि प्रौढयाऽभूडरित्र्या । एवंभूतः परमभिनयन् प्रेम कैश्चिद्विलासै श्चित्रं चित्तं तरलयति मे नञ्जभूपालचन्द्रः॥ एतेषां नायिकानुकूलने पीठमर्दक-विट-विदूषक-चेटाः सहायाः । "किश्चिदूनः पीठमर्दो नैकविद्यो विटः स्मृतः। सन्धानकुशलश्चेटो हास्यप्रायो विदूषकः ॥" १ तवासक्तिर्मय्यप्यस्तीति OL. २ सल्लापादीनि OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy