SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास. १ यथा सर्वानप्यरियूथपानभिमुखान् हन्ति क्षणेनासिना श्लाघाचाटुशतं च किञ्च मनुते शब्दानशक्तानिव । उद्दामोऽपि गुणैर्न जातु गणयत्यात्मानमन्यादृशं दिक्चक्रश्रुतविकमो विजयते नञ्जक्षमावल्लभः ॥ "दर्पमात्सर्यभूयिष्ठश्चण्डवृत्तिविकत्थनः । मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥" यथा भ्रामं भ्रामं कृपाणानसकृदपि भुजामूलमास्फालयन्तः ___ कर्षन्तः केशपाशान्मुहुरतिचलितान् स्वैरमाभसंयन्तः । उत्प्लुत्योत्प्लुत्य पश्चात्करतलकलितान्यायुधान्याहरन्तो नञ्जक्ष्माभृद्भटौघाः समरभुवि पराकुर्वत दुर्विपक्षान् ॥ अत्र नञ्जराजभटानां धीरोद्धतत्वमवगन्तव्यम् । "निश्चिन्तो धीरललितः कलासक्तः सुखैकभूः।" यथा स्वदोर्दण्डक्रीडाविधिविजितदिक्चक्रनिचये भुवो धौरन्धयं वहति सततं नानृपतौ । कुलीनाः सर्वेऽमी निरवधिकभोगैकरसिकाः कलासक्ता नक्तंदिवमपि नयन्ते क्षणमिव । अत्र कृतिनायकवंशजानां राज्ञां धीरललितत्वमवगम्यते । “धीरशान्तः प्रसन्नात्मा धीरः शान्तो द्विजाधिकः " यथा उत्तुङ्गस्फुरदुत्तरोत्तरचमत्कारैर्गिरां विभ्रमै रुद्दडैकरसैनिबन्धनशतैरुत्पाद्य कौतूहलम् । नित्यं नञ्जनृपालमौलिमणिना सन्मानिताः साहिती सारामर्शननिर्भराः कविवरा हृष्यन्ति पुष्यन्ति च ।। अत्र कवीनां धीरशान्तत्वमवगन्तव्यम् । अथ शृङ्गारविषयाश्चत्वारो नायकाः। तदुक्तं दशरूपके " अनुकूलो दक्षिणश्च शठो धृष्ट इति स्मृतः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy