SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ नखराजयशोभूषणम् । [विलास. १ यथा निसगैरुल्लासैनयनकुतुकं नञ्जनपति यदि स्यात्पश्यन्ती मुषितहृदया मामिव रतिः । इतीवासौ कामः प्रशमितमदोदेलविभवः स वैचित्र्यं धत्ते धनुरपि च पौष्पं सुमशरान् ॥ 'जगत्प्रकाशकारित्वं शौर्य तत्परिकीर्त्यते।' यथा समुद्भिन्नाः केचित्रिभुवनविभोर्नञ्जनृपते विपक्षाणां जेतुर्घनबहुलतेजाहुतभुजः। अनेकब्रह्माण्डेष्वपि दुरवकाशेष्वनुदिनं स्फुलिङ्गा एवामी कतिचन चरन्ति द्युमणयः ॥ अत्र अनेकब्रह्माण्डवर्तिद्युमणयो नञ्जनृपतेः प्रतापानलस्फुलिङ्गा एवेति रूपकोक्त्या महाप्रतापशालित्वमुक्तं भवति । 'धर्मकायत्तचित्तत्वं धार्मिकत्वं निगद्यते ।' वात्सल्यादतिशीतलोऽपि शरणं प्राप्तेऽतिदीने जने दृप्यत्सामरदुर्विरोधिदनक्रीडाप्रचण्डद्युतिः। अन्यस्त्रैणपराङ्मुखोऽपि रमते राज्यश्रिया प्रौढया सोऽयं नञ्जमहीपतिर्भगवतो लीलावतारो हरेः॥ आदिशब्दान्महामहिमत्वपाण्डित्यादयः। 'तन्महामहिमत्वं स्याद्या पुनर्देवतात्मता ।' यथा यः स्वाराज्यधुरन्धरेण हरिणा सङ्ससेवाक्रमो येनास्तं गमितं क्षणेन सकलं रक्षाकुलं लीलया यः प्रेमैकनिकेतनं च शिवयोः स्वामी स एव स्वयं सञ्जातो भुवि वीरभूपतिमणी नचक्षितीन्द्रात्मना । 'सर्वविद्याधिकत्त्वं यत्पाण्डित्यं तन्निगद्यते'। यथा स्वयं व्याख्यापीठीमधिवसति नक्षितिपतौ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy