________________
विलास.१]
नायकनिरूपणम् । गुणसकलवैभवविश्राणनप्रतिपादनान्निरन्तरदानकलाबद्धकङ्कणतया त्रिजगद्विलक्षणवदान्यता सूचिता भवति ।
'विश्वम्भराधिपत्त्यं यत्तन्महाभाग्यमुच्यते ।"
यथा
नानादेशगतावनीपमकुटीकेयूरसङ्घट्टित
स्वैरस्रस्तचिरत्नरत्नशकलान्यादाय सङ्कल्पितः। निःसङ्ख्यैर्नवभूषणैर्निजपतिप्रेमप्रमोदार्पितैः
स्तूयन्ते धनदावरोधनिवहेर्नञ्जक्षितीन्द्रश्रियः॥ अत्र कुबेरादिभ्यो भूयसी सम्पत्तिः सेवागतेषु राजसमाजेषु द्योत्यते । तथा बहुविधराजमण्डलविरचितसेवैकशालितया सर्वातिशयालुर्भाग्यातिशयो लक्ष्यते।
'महाकुलिनता नाम कुले महति सम्भवः ।' यथा
जातो यत्र सुधाकरोऽपि भगवान् सर्वज्ञचूडामणि
स्तेजोभिर्मधुसूदनस्य बहवो भूपाश्च संजज्ञिरे । निर्व्याजप्रतिपन्नदिव्यचरिते तस्मिन् कुले निर्मले ___ श्रीमान् नञ्जनपालकः सुकृतिनां भाग्यैः समुज्जृम्भते ॥ अत्र सर्वज्ञचूडामणेश्चन्द्रस्य मधुसूदनस्यांशभूतानां राज्ञां चोत्पत्त्याश्रयतया चास्य चन्द्रवंशस्य महत्ता प्रतिपादिता ।
'कृत्यवस्तुषु चातुर्य वैदग्ध्यं परिकीर्त्यते ।' यथा
अन्योन्यप्रथमानसङ्गरकलाकण्डूलदोर्मण्डल। भ्राम्यद्रीमकृपाणदर्शितमदारम्भप्रियम्भावुकाः । क्षोणीपाश्च दुरन्धराः पुनरमी सेवैकबडाशयाः
सङ्घीभूय चरन्ति नञ्जनृपते त्रप्रयाणोत्सवे ॥ अनान्योन्यबद्धवैराणामपि राज्ञामत्यन्तमैत्रीविधायके कृतिनायके कश्चन चातुर्यविशेषो व्यज्यते।
'रूपसम्पन्नदेहित्वमौज्ज्वल्यं तन्निगद्यते ।'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com