SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ विलास.१] नायकनिरूपणम् । गुणसकलवैभवविश्राणनप्रतिपादनान्निरन्तरदानकलाबद्धकङ्कणतया त्रिजगद्विलक्षणवदान्यता सूचिता भवति । 'विश्वम्भराधिपत्त्यं यत्तन्महाभाग्यमुच्यते ।" यथा नानादेशगतावनीपमकुटीकेयूरसङ्घट्टित स्वैरस्रस्तचिरत्नरत्नशकलान्यादाय सङ्कल्पितः। निःसङ्ख्यैर्नवभूषणैर्निजपतिप्रेमप्रमोदार्पितैः स्तूयन्ते धनदावरोधनिवहेर्नञ्जक्षितीन्द्रश्रियः॥ अत्र कुबेरादिभ्यो भूयसी सम्पत्तिः सेवागतेषु राजसमाजेषु द्योत्यते । तथा बहुविधराजमण्डलविरचितसेवैकशालितया सर्वातिशयालुर्भाग्यातिशयो लक्ष्यते। 'महाकुलिनता नाम कुले महति सम्भवः ।' यथा जातो यत्र सुधाकरोऽपि भगवान् सर्वज्ञचूडामणि स्तेजोभिर्मधुसूदनस्य बहवो भूपाश्च संजज्ञिरे । निर्व्याजप्रतिपन्नदिव्यचरिते तस्मिन् कुले निर्मले ___ श्रीमान् नञ्जनपालकः सुकृतिनां भाग्यैः समुज्जृम्भते ॥ अत्र सर्वज्ञचूडामणेश्चन्द्रस्य मधुसूदनस्यांशभूतानां राज्ञां चोत्पत्त्याश्रयतया चास्य चन्द्रवंशस्य महत्ता प्रतिपादिता । 'कृत्यवस्तुषु चातुर्य वैदग्ध्यं परिकीर्त्यते ।' यथा अन्योन्यप्रथमानसङ्गरकलाकण्डूलदोर्मण्डल। भ्राम्यद्रीमकृपाणदर्शितमदारम्भप्रियम्भावुकाः । क्षोणीपाश्च दुरन्धराः पुनरमी सेवैकबडाशयाः सङ्घीभूय चरन्ति नञ्जनृपते त्रप्रयाणोत्सवे ॥ अनान्योन्यबद्धवैराणामपि राज्ञामत्यन्तमैत्रीविधायके कृतिनायके कश्चन चातुर्यविशेषो व्यज्यते। 'रूपसम्पन्नदेहित्वमौज्ज्वल्यं तन्निगद्यते ।' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy