SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ नञ्जराजयशोभूषणम् । [विलास. १ ततः सैषा भूयः स्रगिव [सुम ] सौरभ्यभरिता कवीनामानन्दं जनयतु जगद्रञ्जयतु च ॥ ८॥ असङ्ख्येयास्तेऽमी कथमपि गुणा नञ्जनृपतेः परिष्कत्तुं को वा प्रभवति तदल्पेन मनसा । तथाऽप्युद्दामोऽयं गुरुवरकृपासारविसरः । समुढेल-मा(लसर्पन ?) मुखरयनि मामेव बहुधा ॥९॥ अथास्य प्रबन्धस्य सुखादिरूपपुरुषार्थसाधकत्वाभावेनाकिश्चित्करत्वमेव, पुरुषार्थसाधकस्यैव जगदादरणीयत्वात्, काव्यालापांश्च वर्जयेदिति निषेधस्मरणाचेति चेत्, नैवम् । अस्य प्रबन्धस्य रामायणादेरिव महापुरुषगुणवर्णनपरतया सकलपुरुषार्थसाधकत्वेनोपादेयत्वाच । स च सरसपदबन्धसान्द्रतया कवेरपि निरवधिकानन्दसम्पादको भवति । उक्तं च जयदेवेन "न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेयं कविता कवीनाम् । लोकोत्तरे पुंसि निवेश्यमाना पुत्रीव हर्ष हृदये करोति ॥” तथा च सकलकल्याणगुणतिलकनाराजचरितपवित्रितमिदं काव्यं जगदानन्दि भवत्येव । काव्यालापांश्च वर्जयेदिति निषेधस्मृतेरसत्काव्यविषयत्वेनादोषत्वाच । अथैते नायकगुणा निरूप्यन्ते 'उदारता महाभाग्यं कुलीनत्वं विदग्धता । औज्वल्यं च तथा शौर्य धार्मिकत्वादयो मताः ॥ तत्र 'विश्राणनैकशीलत्वमौदार्य तन्निगद्यते ।' पटुग्रैवेयाद्यैः परिमृदितमाणिक्यघटितैः __ कवीनां सन्दोहेष्वपि निजसमानेषु सदसि । सपक्षक्षोणीपाः क्षितिपतिलकं नञ्जनृपतिं निरीक्ष्यासेवन्ते करतललसद्दानवलयम् ॥ अत्र भूषणादिविभवैः कवीनां सन्दोहेषु निजसमानेष्वित्यनेन तेषु स्वानु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy