SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ॐ नञ्जराजयशोभूषणम् वन्देऽहं वन्दनीयानां वन्द्यां वाचामधीश्वरीम् कामिता शेष कल्याणकल्पनाकल्पवल्लिकाम् ॥ १ ॥ यद्वीक्षाञ्चलकल्पिता हरिहरब्रह्मादयो निर्जराः यस्यैक्यं समुपासते च कतिचित्तत्त्वं महायोगिनः । विश्वाकारतया चिराय समभूदीशोऽपि यस्य त्विषा तच्छम्भोरनपायधाम किमपि प्रस्तोतुमीशे हृदि ॥ २ ॥ चिदाकाराय शुद्धाय सर्वविद्याविधायिने । योगानन्दयतीन्द्राय सान्द्राय गुरवे नमः ॥ ३ ॥ शिवरामसुधीसुनोर्नरसिंहकवेः कृतिः । नञ्जराजगुणग्रामैर्भूषितैर्भुवि दीव्यतु ॥ ४ ॥ नवं वा प्राचीनं भवतु ननु काव्यं सुचरितं रसस्यन्दि स्यात्तत्सहृदयचमत्कारि भवति । सुधापारावारो निवसतु चिरत्नोऽपि सरसो न रुच्यः किं तस्मादपि जगति राकाहिमरुचिः ॥ ५ ॥ रसालङ्काराद्यैर्ध्वनिभिरपि कैश्चित् सुरभिलैः प्रगीयन्ते काश्चित् भुवि कवयतां साधु कृतयः । इयं चास्माकीना भुवनजननीपादकमल प्रणामप्राचुर्याद्वहतु महतामादरभरम् ॥ ६ ॥ शरत्फुल्लन्मल्लीविगलितमधूलीर सरमा धुरीणा मद्राणी सुखयतितरामेव सुधियः । विघत्ते किं तोषं जगति बधिराणामिह नटद्वधूटीसाटोपस्फुरितमणिकाञ्चीकलरवः ॥ ७ ॥ गुणा भूषायन्ते सहजमधुरा नञ्जन्नृपतेः कृतेरस्या एते जगति [हि ] धुरीणा अपि तया । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy