________________
२२२ नजराजयशोभूषणम्।
[विलास.. दुर्गा विलोकयति नञ्जनरेन्द्रकीर्त्या
क्रान्तां महेशविधृतामिभराजकृत्तिम् ॥ अत्र नञ्जनरेन्द्रकीर्त्या क्रान्तत्वस्येभराजकृत्तौ कथनात् प्रतीयमानवस्त्वन्तरतिरोधानरूपमीलनालङ्कारेण चर्माम्बरे दुकूलभ्रान्तिः प्रसाद्धयत इति मीलनभ्रान्तिमदलकारयोर्विजातीययोः सङ्करः । एकवाचकानुप्रविष्टः सङ्करो यथा
जगत्सन्तापहरणः कलाभिरभिरञ्जितः।
राकाचन्द्र इवाभाति कलुले नञ्जभूपतिः॥ अत्र जगत्सन्तापहरण इत्यर्थसाम्यम्, कलाभिरभिरञ्जित इति शब्द. साम्यम्, तदुभयेऽपि राकाचन्द्र इवेत्येकस्मिन्निवशब्दे प्रविष्टमित्येकवाच. कानुप्रवेशः। सन्देहसङ्करो यथा
दैन्यसन्तापततानां भूपतिनञ्जभूपतिः ।
प्रतापविद्रुमस्तोमदामानि तनुते भुवः ॥ अत्र प्रतापः विद्रुमदामेव प्रताप एव विद्रुमदामेति वा इत्युपमारूपकयोः सन्देहालङ्कारः । अत्र साधकं बाधकं वा प्रमाणन्नान्यतरस्यास्तीति सन्देह एव पर्यवसानम् । साधकबाधकप्रमाणसत्त्वे सन्देहनिवृत्तिः। तत्र साधकं यथा
कान्त्या कवलिततमसं नञ्जक्ष्मापालकीर्तिचन्द्रमसम् ।
अवलम्ब्य सर्वलोकास्तापं दूरे विमुश्चन्ति ॥ अत्र किर्तिरेव चन्द्रमा इत्यत्ररूपके तापविमोचनादि साधकं प्रमाणम् । बाधकं यथा
सर्वसुपर्ववधूटीसन्ततसङ्गीतगीयमानगुणः ।
नेता नञ्जनरेन्द्रः स्निग्यां पुष्णाति वसुमतीयुवतिम् ॥ अत्र वसुमती युवतीवेति उपमालङ्कारे स्निग्धामिति विशेषणं बाधकम् । उपमितं व्याघ्रादिभिः सामान्याप्रयोग इत्यनुशासनेन सामान्यप्रयोगस्योपमा. नसमानविरोधकत्वात् । अत्र पारिशेष्यापकालङ्कारः। एवमन्येषामलङ्काराणां यथासम्भवं संसृष्टिसकरौ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com