________________
..
विलास..]
अलधारमकरणम्। भीकरकरवाललताजृम्भणदोस्तंभविनमोल्लासैः।
जगताममितानन्दं कलयति ननक्षमापतिर्विजयी । अत्र शन्दालङ्कारयो छेकानुप्रासयोः संसृष्टिः। अर्थालङ्कारयोः संसृष्टिर्यथाविप्रेणाम्भोराशिवारांपिबेन क्रीडालूनं विन्ध्यशैलस्य दर्पम् ।
श्रुत्वा त्यक्त्वा भूघरानुन्नतत्वं नक्षमापं प्राप्य पुष्यत्यजत्रम् ॥
अत्राम्भोराशिवारांपिबेन विप्रेणेति भणयन्तरेणागस्त्यप्रतीतेः पर्यायोक्तम् । उन्नतत्वकर्तृकभूषरत्यागस्यासम्बन्धस्यापि सम्बन्धकल्पनादतिशयो'क्तिश्चेत्यनयोः संसृष्टिः। शब्दार्थालङ्कारसंसृष्टिर्यथा
दर्पादनादरणमप्युचितार्थवादि
न्यक्षान्तिरन्य कुशलेष्ववदान्यता च । नञक्षितीन्द्रविमतस्य जवेन लभ्या
मत्याहितामुपदिशन्ति दरिद्रमुद्राम् ॥ अत्र तत्करस्यार्थालङ्कारस्य वृत्यनुप्रासस्य शब्दालङ्कारस्य च संसृष्टिः ।
क्षीरनीरनयाद्योगः सङ्करः समुदीर्यते । यत्र क्षीरनीरन्यायेनालङ्काराणां संयोगः तत्रसङ्करः ।
अङ्गानिभावात्सन्देहादाचकैक्यात्स तु त्रिधा। तत्रापि प्रथमः सजातीयविजातीयभेदेन द्विविधः। तत्र सजातीयसङ्करो यथाउद्यहोईण्डशुण्डाप्रमथितविमताध्यक्षवृक्षप्रकाण्डा.
नुढेलद्दपंभारादिदमिति पुरतः पार्श्वतो नेक्षमाणान् । प्रत्युर्वीभृगजेन्द्रान्विशिखनखशिखाक्षेपणोत्कीर्णकीर्ति
स्फूर्जन्मुक्तासमूहो हरिरिव दलयत्येष नञ्जक्षितीन्द्रः ॥ अत्र हरिरिवेत्युपमालङ्कारेण प्रत्युर्वीभृगजेन्द्रादिषु उपमालङ्कारः प्रसाद्वयत इति सजातीयसङ्करः। विजातीयसङ्करो यथा
चर्माम्बरोऽपि मयि गौरवतो दुकूलं
धत्ते निजश्वशुरदत्तमिति प्रसन्ना ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com