SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ .. विलास..] अलधारमकरणम्। भीकरकरवाललताजृम्भणदोस्तंभविनमोल्लासैः। जगताममितानन्दं कलयति ननक्षमापतिर्विजयी । अत्र शन्दालङ्कारयो छेकानुप्रासयोः संसृष्टिः। अर्थालङ्कारयोः संसृष्टिर्यथाविप्रेणाम्भोराशिवारांपिबेन क्रीडालूनं विन्ध्यशैलस्य दर्पम् । श्रुत्वा त्यक्त्वा भूघरानुन्नतत्वं नक्षमापं प्राप्य पुष्यत्यजत्रम् ॥ अत्राम्भोराशिवारांपिबेन विप्रेणेति भणयन्तरेणागस्त्यप्रतीतेः पर्यायोक्तम् । उन्नतत्वकर्तृकभूषरत्यागस्यासम्बन्धस्यापि सम्बन्धकल्पनादतिशयो'क्तिश्चेत्यनयोः संसृष्टिः। शब्दार्थालङ्कारसंसृष्टिर्यथा दर्पादनादरणमप्युचितार्थवादि न्यक्षान्तिरन्य कुशलेष्ववदान्यता च । नञक्षितीन्द्रविमतस्य जवेन लभ्या मत्याहितामुपदिशन्ति दरिद्रमुद्राम् ॥ अत्र तत्करस्यार्थालङ्कारस्य वृत्यनुप्रासस्य शब्दालङ्कारस्य च संसृष्टिः । क्षीरनीरनयाद्योगः सङ्करः समुदीर्यते । यत्र क्षीरनीरन्यायेनालङ्काराणां संयोगः तत्रसङ्करः । अङ्गानिभावात्सन्देहादाचकैक्यात्स तु त्रिधा। तत्रापि प्रथमः सजातीयविजातीयभेदेन द्विविधः। तत्र सजातीयसङ्करो यथाउद्यहोईण्डशुण्डाप्रमथितविमताध्यक्षवृक्षप्रकाण्डा. नुढेलद्दपंभारादिदमिति पुरतः पार्श्वतो नेक्षमाणान् । प्रत्युर्वीभृगजेन्द्रान्विशिखनखशिखाक्षेपणोत्कीर्णकीर्ति स्फूर्जन्मुक्तासमूहो हरिरिव दलयत्येष नञ्जक्षितीन्द्रः ॥ अत्र हरिरिवेत्युपमालङ्कारेण प्रत्युर्वीभृगजेन्द्रादिषु उपमालङ्कारः प्रसाद्वयत इति सजातीयसङ्करः। विजातीयसङ्करो यथा चर्माम्बरोऽपि मयि गौरवतो दुकूलं धत्ते निजश्वशुरदत्तमिति प्रसन्ना । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy