SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १२० नजराजयशोभूषणम्। [विलास.. पूर्वपूर्वकृतोत्कर्ष भजेचेदुत्तरोत्तरम् । तत्र मालादीपकाख्यां वदन्ति समलङ्कतिम् ॥ यथा विजयः श्रयते खड्गं खड्गो नाविभोः करम् । तञ्च साम्राज्यचिह्नानि तानि सत्कविवर्ण्यताम् ।। उत्तरोत्तरमुत्कर्षः सारालङ्कार उच्यते । यथा शुभ्रस्त्रिनेत्रमकुटीतटिनीप्रवाहात् दुग्धाम्बुधिदिविचरैरभिमन्थ्यमानः । तस्मादनुष्णकिरणः शरदि प्रवृद्धः स्वच्छा ततोऽपि ननु नञ्जनरेन्द्रकीर्तिः ॥ यथा वा धातुःप्रपञ्चरचनासु मनुष्यजाति. निर्माणमत्र च नृपान्वयकल्पनानि । उद्भावनं तुहिनभानुकुलस्य तेषु - स्तुत्याऽपि तत्र किल नञ्जनरेन्द्रसृष्टिः ॥ इत्यर्थालङ्कारप्रकरणम् । अथ संसृष्टिसङ्करौ निरूप्येते। लौकिकानामलङ्काराणां यथा हिरण्मयादीनां मणिमयादीनाञ्च पृथक्सौन्दर्यहेतूनामन्योन्यसम्बन्धेन चारुत्वातिशयो दृश्यते तथैव काव्यालङ्काराणां रूपकादीनां मिथस्सम्बन्धेन सौन्दर्यातिशयः प्रतीयते । स च सम्बन्धो विविधः। संयोगरूपस्समवायरूपश्चेति । संयोगे तिलतण्डुलन्यायः । समवाये क्षीरनीरन्यायः। तिलतण्डुलसंश्लेषभङ्ग्या या स्यात् परस्परम् । अलङ्कृतीनां घटना सा संसृष्टिर्निगद्यते ॥ यत्र तिलतण्डुलन्यायेन परस्परसम्बद्धा रूपकादयो भवन्ति सा संसृष्टिः। सा च त्रिविधा, शब्दार्थतदुभयगतत्वेन । तत्र शब्दालङ्कारसंसृष्टियथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy