SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ विलास. ७ ] यथा- अलङ्कारप्रकरणम् । संप्रेष्य नञ्जनृपतेः प्रथमं प्रणामान् साक्षात्तमेत्य च शनैर्महिमुहामः । यस्यापि कस्य शयने स्वपतो जनस्य वेगोत्थितिः क घटतामनिषिद्य किञ्चित् ॥ 'छेकोक्तिर्यत्र लोकोक्तेः स्यादर्थान्तरगर्भता ॥' यथा मत्तोऽपि नैव निपुणा घरणी तथापि श्री नञ्जराजभुज एव सदा विभाति । या कापि वा भवतु सैव हि देवकान्ता यस्यां मनः कलयति स्वयमेव राजा ॥ अथ शृङ्खलान्यायमूलालङ्कारा निरूप्यन्ते । पूर्वपूर्व पत्र भजेदुत्तरोत्तरहेतुताम् । तत्र कारणमालाख्यमलङ्कारं प्रचक्षते ॥ यथा वृद्धार्जितेन विभवेन मदातिरेकस्तेनाप्तमन्त्रिवचनेष्ववहेलनानि । तैर्नञ्जराजहृदयस्य महानमर्षो देशप्रवासनमनेन हि दुष्प्रभूणाम् ॥ अत्र पूर्वपूर्वमुत्तरोत्तरं प्रतिहेतुतापन्नम् । 'यत्रोत्तरोत्तरेषां स्यात्पूर्वपूर्व प्रति क्रमात् । विशेषणत्वकथनमसावेकावली मता ॥' यत्र पूर्व पूर्व प्रति उत्तरोत्तरं विशेषणत्वं भजते स एकावल्यलङ्कारः । यथा- यथा वा - निन्द्या नञ्जनुपामित्रा पैरहन्ताऽवलम्ब्यते । अहन्ता सापि दूष्यैव या युधि कापि लीयते ॥ विभाति वीरनन्दोर्भुजः शौर्येण रञ्जितः । शौर्य च नीतिमहितं नीतिवंशक्रमागता ॥ इदं स्थापनेनोदाहरणम् । अपोहनेनापि भवति । यथा २१९ वृडा अपि न ते पूज्या विद्यायां ये न शिक्षिताः । विद्या सा नैव नजेन्द्रसभां या नावगाहते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy