SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २१८ यथा नञ्जराजयशोभूषणम् । दोष्णा दधत्युदधिकाञ्चिधरां धरित्रीं नञ्जप्रभौ प्रकृतयः परिपूर्णलाभाः । शृण्वन्ति रत्नसदनेषु सुखं वसन्तचाटूनि नन्दनवनीशुकसारिकाणाम् ॥ अत्र प्रकृतीनां समृद्ध्यतिशयो वर्ण्यते । परिवृत्तिर्विनिमयोऽधिकाल्पसमजत्रिषा | विनिमयो नाम वस्तुदानेन वस्त्वन्तरस्वीकरणम् । स त्रिघा । अधिकवस्तुदानेनाल्पवस्तुस्वीकारः, अल्पवस्तुदानेनाधिकवस्तुस्वीकारः, समेन समस्वीकारश्च । तत्र प्रथमं यथा नञ्जेन्द्र तव खड्गाय समर्प्य विजयश्रियम् । तन्मालिन्यं प्रतिक्ष्मापा जवादाददते हृदि ॥ अत्राधिकाया विजयश्रियो दानेन न्यूनस्य खड्गमालिन्यस्य स्वीकारः । अल्पवस्तुदानेनाधिकवस्तुस्वीकारो यथा नखेन्द्रसैन्यैरनुधावितानां स्त्रियः प्रियाणां वदनेषु दातुम् । तृणान्युपादाय मुखान्मृगीणां तासां स्वनेत्रश्रियमर्पयन्ति ॥ [ विलास. ७ अत्र शात्रवयुवतिकटाक्षश्रियोऽधिकायाः परिग्रहणमल्पतॄणदानपूर्वकं मृगीणामिति मृगीष्वल्पवस्तुदान पूर्वकोऽधिकवस्तुस्वीकारः । समेन समस्वीकारो यथा नोर्वीशयशोभरः स्वरुचिभिः सप्तापि वारां निधीनातन्वन् घवलद्युतीनतितरामाक्रान्तदिक्कन्नरः । तत्कल्लोलपरम्परापरिलसन्मन्दानिलस्पन्दने नानादेशपरिश्रमोपजनितां श्रान्तिं जहीतेऽञ्जसा ॥ अत्र धवलद्युतिवितरणश्रान्तिपरिहरणयोः परस्परकार्ययोः समत्वम् । लोकन्यायमूलालङ्कारनिरूपणप्रस्तावे लोकप्रसङ्गाल्लोकोक्तिछेकोक्ती नि रूप्येते । 'लोकप्रवादानुसृतिर्लोकोक्तिरिति कथ्यते' । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy