________________
बिलास..] अलङ्कारप्रकरणम् ।
२१७ अत्र क्रमविशेषणं युगपदनेकत्रैकस्यावस्थानरूपस्य विशेषालङ्कारस्य व्यवच्छेदार्थ । विनिमयाभावान परिवृत्तिः। तत्रानेकस्मिन्नेकं यथा
आदौ हे हयनाथ बाहुकदलीदन्तावलेन्द्रे ततः __ कोपाटोपकषायिताक्षिवलनत्रस्यत्पयोधौ विभौ। स्वैरं वा समुपेत्य सर्वजगतां विस्मापकैर्विभ्रमैः
शौर्य श्रीरधुना विराजति सुखं नञ्जक्षमावल्लभे ॥ अत्रैकस्या एव शौर्यश्रियः कार्तवीर्यजेतरि रामचन्द्र नाराजे च क्रमेणावासकथनादनेकस्मिन्नेकमिदम् ।
एकस्मिन्ननेकं यथाकलुलेनृपालविमतक्षमाभृतां सदनेषु येषु समभून्मृगीदृशाम् । प्रथमं सलीलवचनोदयोऽधुना प्रसरन्ति तेषु कटपूतनारवाः ॥
विमतक्षमाभृतां सदनेषु मृगीदृशां प्रथमं सलीलवचनोदयः, इदानीं कटपूतनारव इत्येकत्रानेकम् ।
___'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते । निपुणतरमात्रज्ञेयस्यार्थस्याकारेगिताभ्यां यत्र प्रकाशनं स सूक्ष्मा. लङ्कारः। यथा
उर्वीमण्डलपालने कुतुकिनः संत्येव भूपाः शतं ।
तेषामन्यतमस्स नानृपतिः किं वाधिकः कथ्यताम् । इत्थं प्रत्यवनीभुजामनुपदं साटोपमा पृच्छता
मग्रे हस्तिपदं विलिख्य सचिवा मौनं वहन्ते तराम् ।। अत्र नञ्जभूपतिबहूनां भूपानामन्यतमः उताधिको वेति प्रत्युर्वीभृतां प्रश्ने सचिवाः [सर्व] हस्तिपदे मनमिति न्यायोद्बोधनद्वारा सर्वेऽपि तस्याप्या एवेत्यर्थस्य विदग्धमात्रज्ञेयस्य प्रकाशनात् सूक्ष्मालङ्कारः।
उदात्तालङ्कतिः सा स्याद्यत्समृद्धार्थवर्णनम् ।
अत्रार्थवर्णनमात्रस्य स्वभावोत्याऽतिप्रसक्तत्त्वात् समृद्धत्युक्तम् । न च भाषिकाभेदः, यथास्थितस्यैव वस्तुनो भूतभविष्यदाकारेणानुभवप्रथनात् । न चासम्बन्धे सम्बन्धोक्तिरूपातिशयोक्त्यभेदः । दिव्यभोगसमृद्धिमादाय सबैजात्यसिद्धेः।
२०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com