SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ नञ्जराजयशोभूषणम् । [ विलास. ७ यत्राद्भुतवस्तुवर्णनया भूतभाविनोरपि वस्तुनोर्भावकानां हृदि भावनावशेन प्रत्यक्षायमाणत्वं तत्र भाविकालङ्कारः । अध्यवसायासंभवान्नोत्प्रेक्षा । अभ्रान्तिरूपत्वाद्भावनाया न भ्रान्तिमदलङ्कारः । तत्रैव विभावाद्यनुसन्धानेन रसादेर्भाव्यत्वं न त्वद्भुतत्वेन अतस्सर्वोत्तीर्ण एवायमलङ्कारः । २१६ यथा अद्यापि नञ्जनृपसङ्गरकौशलं तदालोकयन्ति मनुजाअपि वृत्तपूर्वम् । अस्त्रान्धकारकवली कृतरोधसीकं मध्ये मुहुस्स्फुरदसिक्षणरुक्तरङ्गम् ॥ अत्र द्यावापृथिवीव्याप्तशस्त्रान्धकारस्य मध्ये कृपाणस्फुरणविद्युद्विलसिततरङ्गितस्य नजेन्द्रसङ्गरकौशलस्य प्रागेव वृत्तस्यापि भावनया प्रत्यक्षायमाणत्वादद्भुतत्वमिति तद्वर्णनात् भाविकालङ्कारः । यत्र बलप्रतिपक्षस्य प्रतीकारासामर्थ्यात्तदीयतिरस्कारो भवति तत्प्रत्यनीकम् । यथा 'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यत्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते ॥ नञ्जराज तव खड्गकान्तिभिर्निर्जितो दिवि विधुंतुदोरगः । त्वद्यशः शकलसश्रियं मुहुर्निर्भयं ग्रसति चन्द्रमण्डलम् ॥ अत्र नञ्जराजखडू निर्जितस्य राहोस्तदीयतिरस्कारासामर्थ्यात्तत्संपादि तकीर्तिगतलेशसप्रभस्य चन्द्रस्य तिरस्कार इति प्रत्यनीकम् । ' येन यत्साधितं वस्तु तेनैव क्रियतेऽन्यथा । अन्येन तदलङ्कारो व्याघात इति कथ्यते ॥' यस्तु येनकेनचित् कर्त्रा येन साधनेन साधितं तेनैव साधनेनान्येन कर्त्रा यदन्यथा क्रियते स व्याघातालङ्कारः । यथा - दर्पान्धैरवनी पालेर्भुजे नायासितां महीम् । विनेता वीरनवेन्द्रो भुजेन सुखयत्यसौ ॥ अत्र भुजेन दृप्तराजसम्पादितस्य विश्वंभरायासस्य नञ्जराजभुजेन सुखकरणेनान्यथाकरणोक्तेर्व्याघातालङ्कारः । क्रमादेकमनेकस्मिन् अनेकमपि यत्र वा । एकस्मिन् वर्तते तत्र पर्यायालङ्कृतिं विदुः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy