SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ विलास. ७] अलङ्कारप्रकरणम् । २१५ अत्रानेकक्रियाणां समुच्चयः । एकविषयगुणसमुच्चयो यथा कीर्तिप्रतापसङ्कान्तभुवने नञ्जभूवरे । विज़ुभते सदा दिक्षु धावल्यमपि रक्तिमा ॥ अत्र गुणयोरेकविषयत्वेन समुच्चयः । खलेकपोतन्यायेन स्वतन्त्रैर्बहुकारणैः । मिलितैः क्रियते कार्य यत्रैकं तत्र तत्करः॥ यत्र खलेकपोतन्यायेन मिलितानां बहुकारणानां एकस्यैव कार्यस्योत्पा. दने समुद्योगस्स तत्करालङ्कारः । अयमेव द्वितीयसमुच्चय इति व्यवहीयते । यथाऔनत्यमष्टापदशैलमित्रं गाम्भीर्यमम्भोधिभिरर्थनीयम् । श्रीस्सत्यवाक्त्वञ्च वदन्ति नेतुनचक्षितीन्द्रस्य कुलप्रतिष्ठाम् ॥ अत्रौन्नत्यादीनां नझेन्द्रकुलप्रतिष्ठाकथने प्रत्येकं कारणानां युगपत् खलेकपोतन्यायेन मेलनम् । काकतालनयाडेतौ यत्र वाऽन्येन हेतुना। प्रक्रान्तकार्यसौकर्ये समाधिः स्यादलङ्कतिः ॥ यत्रैकस्मिन् हेतौ कार्यसाधनया प्रवृत्ते अन्येन हेतुना काकतालन्यायेन प्रक्रान्तकार्यसौकर्य क्रियते स समाधिरलङ्कारः । काकतालेति विशेषणात्तत्कराझेदः, तत्करे तु कारणमेलनं खले कपोतन्यायेन । यथा दूरे कापि निलीयशैलशिखरप्रान्तेष्वसूत्रक्षितुं धावन्तः कतिचित्पदानि तरसा पादानलग्नं स्वतः । वल्मीकं समुपाश्रयन्त गलितत्रासाः प्रतिक्ष्माभृत स्तन्निर्वयं निवृत्तमेव समितेननक्षमाधारिणा ॥ अत्र शैलप्रान्तानुद्दिश्य धावनरूपेण कारणेन प्रक्रान्तशत्रुप्राणरक्षणरूपकार्यमेवार्थादापतितवल्मीकारोहणरूपकार्यान्तरं सुकरीकरोतीति समाधिरलकारोऽयम् । अर्थ लोकन्यायमूलालङ्कारा निरूप्यन्ते । भवेद्यत्रामृतार्थस्य वर्णनातभाविनोः। अपरोक्षायमाणत्वं तद्भाविकमुदाहृतम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy