SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २१४ नञ्जराजयशोभूषणम् । अत्रापि प्रश्नद्वयस्यैकमुत्तरम् । वाक्यन्यायमूलप्रस्तावाद्विकल्पो निरूप्यते । समप्रमाणवैशिष्ट्याद्युगपत्प्राप्तयोः कचित् । विरोधश्चेत्सदृशयोर्विकल्पस्स तु कथ्यते ॥ यत्र समं हि विरुद्धद्वयं युगपत्प्रस्तुतं विकल्पार्ह तेन तुल्यप्रमाणवैशि ष्ट्यात् समबलयोर्द्वयोरेकत्र युगपत्प्राप्तौ विरोधस्फुरति तत्र विकल्पालङ्कारः । यथा किमुष्ट्रासिकया भूयो भवद्भिर्भूमिपालकाः । स्व कोशं नञ्जराजस्य कोशं वा नीयतां करः ॥ अत्र खनं धत्त अन्यथा नञ्जराजस्य घनादिकं प्रेषयतेति कल्पद्वयेऽपि समबलत्वम् । तत्र विरुद्धत्वाद्यौगपद्यासंभवेन विकल्पः । विकल्पप्रतिपक्षभूतस्समुच्चयो निरूप्यते । क्रियाणां वा गुणानां वा युगपत्परिमेलनम् । एकत्र वर्ण्यते यत्र स द्वेघा स्यात्समुच्चयः ॥ यथा [ विलास. ७ विणमेइ अज्ज घणुकं मअणो उज्जेइ चन्दिमो अ पुरो । अणुलिंपति अ ललना सहि णञ्जविहू वि आअदो अ भवे ॥ अत्र धनुर्विनमनाद्यनेकक्रियाणां युगपदवस्थितिः । गुणसमुच्चयो यथा अणिमा सुरभूरुहप्रसङ्गे गरिमाचोल्लसति द्विषां विषादे । लघिमा च पुरानृपप्रशस्तौ धरणीं नञ्जविभौ भुजे दधाने ॥ अत्राणुत्वादिगुणानां समुच्चयः । निरुक्तोभयमपि भिन्न विषयकत्वे उदाहरणम् । एक विषयकत्वे क्रियासमुच्चयो यथा शोभा समुल्लसितकान्ति तरङ्गिताङ्गयो नञ्जक्षमारमणचन्द्रमपाङ्गयन्त्यः । मुयन्ति मञ्जु विहरन्ति च विभ्रमन्ति रज्यन्ति चापि विलसन्ति हसन्ति कान्ताः ॥ (छा ) विनमयत्यद्य धनुर्मदनो उद्यति चन्द्रश्च पुरः अनुलिम्पन्ति च ललनाः सखि नञ्चविभुरप्यागतश्च भवेत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy