________________
२१४
नञ्जराजयशोभूषणम् ।
अत्रापि प्रश्नद्वयस्यैकमुत्तरम् । वाक्यन्यायमूलप्रस्तावाद्विकल्पो निरूप्यते । समप्रमाणवैशिष्ट्याद्युगपत्प्राप्तयोः कचित् । विरोधश्चेत्सदृशयोर्विकल्पस्स तु कथ्यते ॥ यत्र समं हि विरुद्धद्वयं युगपत्प्रस्तुतं विकल्पार्ह तेन तुल्यप्रमाणवैशि ष्ट्यात् समबलयोर्द्वयोरेकत्र युगपत्प्राप्तौ विरोधस्फुरति तत्र विकल्पालङ्कारः ।
यथा
किमुष्ट्रासिकया भूयो भवद्भिर्भूमिपालकाः ।
स्व कोशं नञ्जराजस्य कोशं वा नीयतां करः ॥
अत्र खनं धत्त अन्यथा नञ्जराजस्य घनादिकं प्रेषयतेति कल्पद्वयेऽपि समबलत्वम् । तत्र विरुद्धत्वाद्यौगपद्यासंभवेन विकल्पः । विकल्पप्रतिपक्षभूतस्समुच्चयो निरूप्यते ।
क्रियाणां वा गुणानां वा युगपत्परिमेलनम् । एकत्र वर्ण्यते यत्र स द्वेघा स्यात्समुच्चयः ॥
यथा
[ विलास. ७
विणमेइ अज्ज घणुकं मअणो उज्जेइ चन्दिमो अ पुरो । अणुलिंपति अ ललना सहि णञ्जविहू वि आअदो अ भवे ॥ अत्र धनुर्विनमनाद्यनेकक्रियाणां युगपदवस्थितिः । गुणसमुच्चयो यथा
अणिमा सुरभूरुहप्रसङ्गे गरिमाचोल्लसति द्विषां विषादे । लघिमा च पुरानृपप्रशस्तौ धरणीं नञ्जविभौ भुजे दधाने ॥ अत्राणुत्वादिगुणानां समुच्चयः । निरुक्तोभयमपि भिन्न विषयकत्वे
उदाहरणम् ।
एक विषयकत्वे क्रियासमुच्चयो यथा
शोभा समुल्लसितकान्ति तरङ्गिताङ्गयो नञ्जक्षमारमणचन्द्रमपाङ्गयन्त्यः । मुयन्ति मञ्जु विहरन्ति च विभ्रमन्ति
रज्यन्ति चापि विलसन्ति हसन्ति कान्ताः ॥
(छा ) विनमयत्यद्य धनुर्मदनो उद्यति चन्द्रश्च पुरः अनुलिम्पन्ति च ललनाः सखि नञ्चविभुरप्यागतश्च भवेत् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com