SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ विलास..] अलङ्कारप्रकरणम् । २१३ अत्राप्रश्नपूर्विका शाब्दवर्जनीयार्था पूर्वार्द्ध, उत्तरार्द्ध तु आर्थवर्जनीया। श्लेषालङ्कारसङ्कान्ता परिसंख्या विशेषतः । चमत्करोतीति केचित्तामाहुः प्रागलङ्कतिम् ॥ यथाकर्णच्छेदः पाण्डवानां चरित्रे काव्ये चाये शैवधर्मावभङ्गः । स्नेहप्रासो दीपनालेष्वभूवन्नाबिभ्राणे नञ्जभूपे धरित्रीम् ॥ उत्तरं प्रश्नपूर्वञ्चेदुत्तरादा बहिर्यदि । प्रश्न उन्नीयते तत्र भवेद्विविधमुत्तरम् ॥ अत्र परिसंख्याव्युदासाय व्यवच्छेद्यं विनवेति विशेषणं देयम् । प्रश्नपूर्वकमुत्तरं यथा कः कोरकयति कीर्ति दातृत्वगुणस्स कस्य नाविभोः । को वाऽस्य तद्धटयिता पुरहरचरणाजसेवनोल्लासः । उन्नयप्रश्नं यथायस्मिन् कस्मिन् कलयति कृपां नञ्जभूपस्सकृञ्चेत् तत्सौभाग्यं त्रिदशपतिनाऽप्यर्थनीयं तपोभिः । यस्मै क्रुध्यत्यपि यदि मनाक्तं परित्रातुमग्रे। तस्य स्थातुं प्रभवति तरां नैव पश्यामि कोऽपि ॥ अत्र कृतिनायकप्रतिभटसचिवोक्तिरियम् । अनया सचिवान्प्रति ननभूपकृपासम्पादने किं फलं विरोधसम्पादनेन का हानिरिति प्रत्यर्थिभूपप्रस्तावितं प्रश्नद्वयमुन्नीयते । इत्युन्नेयप्रश्नोऽयमलङ्कारः । प्रश्नोत्तराभिन्नमेकमुत्तरं चित्रमुत्तरम् । यथा के नन्दयन्ति सुकवीन् स्तुत्यः को वा जनैर्विभवः । भुवि लसति कस्य सृष्टा(व?)मद्भुतचरितः स एष नाविभुः ॥ पूर्वार्धे प्रश्नद्रयस्यैकमुत्तरम् । उत्तरार्धे प्रश्नाभिन्नमुत्तरम् । के नित्यमर्थिसेव्याः कः कामुककौतुकाय सुरतरवः । कस्य मदो विभवस्त्वां नजेन्द्र नमन्ति कीदृशाः करणाः (रिणः)॥ १ यस्मिन् L Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy