________________
२१२
नखराजयशोभूषणम् ।
[विलास.७
यथाआकर्ण्य नञ्जक्षितिपालमौलेरौदार्यमाखण्डलवन्यवृक्षाः। आश्चर्यभावस्तिमिता यदि स्युः मितप्रदानाः किमुतान्यभूपाः ॥
अत्र कल्पवृक्षाणां विस्मयकारणादप्रकृतात्प्रकृतमितरराजविस्मयकरणमाक्षिप्यते। द्वितीयं यथाकल्पान्तोन्मिषदम्बुराशिविचलत्कल्लोलकोलाहल
प्राग्भारप्रथनप्रकामकरणप्रौढाट्टहासोद्भटाः। भूपालाश्शतलक्षशोऽपि मिलिता नालं रणोत्साहिनो
नञ्जक्ष्माधिपतेरमर्षशकलस्यान्येषु का वा कथा ॥ अत्र बहुशस्समुदितेष्वपि क्षमापालेषु नञ्जराजक्रोधशकलापर्याप्तत्वकथनेन प्रकृतेनाप्रकृतं व्यस्तेषु राजसु तदपर्याप्तत्वमाक्षिप्यते ।
वस्तुष्वेकमनेकेषु प्रासं यत्र नियम्यते ।
एकत्रैव भवेत्तत्र परिस-या चतुर्विधा । इयं प्रश्नपूर्विका ततोऽन्यथा चेति द्विविधा । पुनः प्रत्येकं वर्जनीयार्थस्य शान्दत्वार्थिकत्वाभ्यां द्विविधेति संभूय चतुर्विधा। तत्र प्रश्नपूर्विका शाब्दवर्जनीयार्था यथागाम्भीर्येण गरीयसा विजयते को वा महीमण्डले
नेता नञ्जनरेन्द्रलोकतिलकस्सप्तापि नैवार्णवाः । सौन्दर्येण समस्तसारसुदृशां संमोहदायी च कः
स श्रीमान् कलुले कुलाम्बुधिभवद्राकाशरच्चन्द्रमाः ॥ पूर्वार्धे सप्तसु चार्णवेषु गाम्भीर्येण सर्वोत्कृष्टवर्तनरूपार्थवर्जनस्य शाब्दत्वाच्छाब्दवर्जनीया । उत्तरार्धे वर्जनीयार्थस्यार्थिकत्वादार्थवर्जनीया परिसङ्खथा। अप्रश्नपूर्विकाशाब्दवर्जनीया यथापरं नैर्मल्यश्रीर्यशसि कलुले भूपतिमणे
नै गङ्गायां नो वा शिशिरकिरणे नो हिमगिरौ । द्विषत्सवा एव क्षितिघरगणा नानृपति
मरुत्वानेवाभूदसिरभवदस्यैव कुलिशम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com