________________
विलास. ७] अलङ्कारप्रकरणम् ।
२११ अत्र सामान्यविशेषयो र्वाच्यत्वं दृष्टान्तालङ्कारे तु सामान्ययोरेव वाच्यत्वमित्यनयो महान् भेदः। सामान्येन विशेषसमर्थनं यथाजातोऽपि नओन्द्रकृपाणमूर्त्या राहुस्सदा दृप्तयशस्सुधांशुम् । गवेषयत्येव मुहुर्ग्रहीतुं त्याज्या न जन्मान्तरवासनैव ।।
अत्र जन्मान्तरवासना न त्याज्येति सामान्येन कृपाणमूर्त्या जातस्यापि राहोर्दिषद्यशश्चन्द्रगवेषणरूपविशेषस्समर्थ्यते। विशेषात्सामान्यसमर्थनं यथा
स्तोकाकृतिरपि चतुरस्तेजस्वी भवति परतिरस्करणे ।
दलयति हि नानृपतेः प्रतापवः कणोऽपि भूमिभृतः ॥ अल्पोऽपि तेजस्वी परतिरस्करणे चतुरो भवतीति सामान्यं विशेषेण समर्थ्यते।
अथ तकन्यायमूलालङ्कारनिरूपणानन्तरं वाक्यन्यायमूलालङ्कारा निरूप्यन्ते।
'उद्दिष्टानां पदार्थानां पूर्व पश्चाद्यथाक्रमम् ।
अनूद्देशो भवेद्यत्र तद्यथासंख्यमुच्यते ॥' यत्र येन क्रमेणोद्दिष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते तत्र यथासंख्यालंकारः॥ यथा
कीर्तिप्रतापविभवैरिन्दुरविश्रीदनामानि । विस्मारयति समस्तान्निस्तुलचरितस्स एष नाविभुः॥ 'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् ।
कैमुत्यन्यायतस्सा स्यादर्थापत्तिरलतिया ॥' यत्र यस्य कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायेन कैमुत्येनार्थान्तरमापतति तत्रापत्तिरलङ्कारः। न चात्रानुमानशङ्का । कैमुत्यन्यायरूपत्वात् । समानन्यायो ह्यापत्तिप्रयोजकः । न च समानन्यायस्य व्याप्तिरूपता । अनुमानं व्याप्तिमुपजीव्य प्रवर्तते । ततो न तत्रास्यान्तर्भावः । अयमलङ्कारः प्रकृतादप्रकृताक्षेपः, अप्रकृतात्प्रकृतापेक्ष इति द्विविधः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com