SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २१० नञ्जराजयशोभूषणम् । " तत्राद्यं यथा - सौमित्रिरुतवा रामो नूनं नञ्जमहीपतिः । न चेद्राजकुलेष्वेष सबलातिबलः कथम् ॥ अनुमानरूपेण यथा यतो राजोन्मेषं स्थगयति गजांभोधरघटाप्रभूतं शस्त्रानेइशकलसुरगोपैरपि यतः । यतः कीलालोद्यैरपि दश दिशः पङ्किलभुवो ततो मन्ये नक्षितिपतिरणं वर्षसमयम् ॥ तोर्वाक्यपदार्थ काव्यलिङ्गमुदाहृतम् ।" यत्र हेतुर्वाक्यार्थः पदार्थों वा इतरार्थसमर्थकः स्यात्तत्र काव्यलिङ्गम् । तच्चोक्तरीत्या द्वेधा । पद्गतत्वेऽपि विशेषणत्वेनैव हेतुत्वं कार्यम् । यत्र पुनस्तृतीयादिना हेतूच्छित्तिः, न तत्रासावलङ्कारः । किन्तु हेतुमात्र चमत्काराभावात् । न चायमनुमानेऽन्तर्भवतीति वाच्यम् । ज्ञाप्यज्ञापकभावाभावात् । व्याप्तिपक्षधर्मतयोरनुपसंहाराञ्च । समर्थ्य समर्थक भावो हि प्रकृतेऽभिमतः । नचार्थान्तरन्यासाभेदाशङ्का । प्रकृते समर्थ्य समर्थकयोर्वाक्यार्थयोराकाङ्क्षा सद्भावस्य प्रयोजकस्वीकारात् । अर्थान्तरन्यासे तु समर्थ्य समर्थ कयोराकाङ्गाभावात् कथं तर्हि समर्थनम् । उत्थापिताकाङ्क्षयाऽपि तदुत्पत्तेः । तत्र वाक्यगतं यथा- विराजते नञ्जनरेन्द्रमूर्त्या महीतले सम्प्रति पारिजातः । अकिञ्चनत्वोपनतं विषादं विमुञ्चताद्यैव बुधास्समस्ताः ॥ अत्र विषादमोचनरूपकार्यसमर्थको महीतले नञ्जराजात्मना पारिजातप्रकाशो वाक्यार्थो हेतुरिति वाक्यार्थहेतुकं काव्यलिङ्गम् । पदगतं यथा— जेन्द्र त्वत्प्रतापानेस्सन्निधानेऽपि वैरिभिः । न विसृष्टोऽञ्जनश्यामो विषादात्मा तमोभरः ॥ अत्र विषादस्य तमोभरत्वसमर्थने अञ्जनश्यामत्वरूपपदार्थों हेतुरभ्यु पगन्तव्यः । सामान्यं वा विशेषेण विशेषो वा ततोऽन्यतः । समर्थ्यते यत्र तत्रार्थान्तरन्यास ईरितः ॥ [ विलास. ७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy