________________
विलास. ७ ]
२०९
मृषेति वर्णनं प्रथममन्यस्योपमेयत्त्ववर्णनं द्वितीयम्, वैयर्थ्यवर्णनं तृतीयम्, वर्ण्यमुपमानीकृत्यान्याहङ्कारनिवारणं चतुर्थम्, अन्यदुपमानीकृत्य वर्ण्याहङ्कारनिवारणं पञ्चमम् ।
तत्राद्यं यथा
अलङ्कारप्रकरणम् ।
अश्रान्तदानधुर्येण नञ्जभूपतिना जनाः । _आमध्याह्नप्रदातारमाहुः कर्ण मृषा समम् ॥ अत्र कर्णस्योपम्ये मृषात्वं वर्ण्यते ।
द्वितीयं यथा
राजते गुणसंपन्नो यथा न महीपतिः । तथा विभान्ति सर्वेऽपि सागरा रत्नसंभृताः ॥ अत्रोपमानस्योपमेयत्ववर्णनम् ।
तृतीयं यथा
―
वितरति वाञ्छितमखिलं वीरमहीपालनन्दने नृपतौ । किममर्त्यरत्न कल्पकसौवर्गगवीप्रसङ्गेन ||
अत्रोपमानवैयर्थ्यवर्णनम् ।
चतुर्थ यथा
मुकुलत्करपद्मकोशभाजां सरसां श्रियमर्पयामि नित्यम् । इति गर्वममुं जहीहि भानो भवता सदृशोऽस्ति नञ्जविभुः ॥ अत्रावर्ण्यस्याहन्तानिवारणवर्णनम् । एवमन्यदप्यूह्यम् ।
अथ तर्कन्यायमूलालङ्काराः कथ्यन्ते । साध्यसाधनमात्रोक्तावनुमान उदाहृतः । तर्कानुमानरूपाभ्यां तत्प्रवृत्तिर्द्विधा भवेत् ॥
यत्र किञ्चिद्भाव्यं निश्चित्य तज्ञापकतयाऽन्ये निर्दिश्यन्ते तत्रानुमानालङ्कारः । अत्र मात्रचाव्याप्तिपक्षधर्मतयोः प्रदर्शनं निवर्त्यते । तयोरपि प्रदर्शने तर्कानुमानत्वापातात् । वस्तुतस्तु ताभ्यामत्र भवितव्यमेव, तदभावे काव्यलिङ्गतापत्तेः । किञ्चात्र कविनिर्मितचातुर्यमहिना श्लिष्टरूपातिशयोक्त्याथालम्बनेनानुमानोत्थानेन न तार्किकानुमानत्वप्रसङ्गकलङ्क इति चमत्कारिताऽप्यस्योपपाद्यते । इदं तर्करूपेणानुमानरूपेण च द्विविधा ।
२७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com