SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २०८ नजराजयशोभूषणम् । [विलास. ७ कार्याकारणप्रतीतिर्यथा निमेषं नाराजस्य गाहमाना रणाङ्गणम् । दृप्ता निमेषव्यापार विस्मरन्त्यविलम्बितम् ॥ अत्रदेव तादात्म्यमिव तदेकदेशतया सन्ततनिमेषविस्मरणमपि रणावगाहनफलकेन वर्णनीयमिति तन्मुखेन देवतादात्म्यं गम्यते । इत्थमेवान्यदप्यूह्यम् । गम्यप्रस्तावात्पर्यायोक्तिनिरूप्यते कारणं गम्यते यत्र प्रस्तुतात्कार्यवर्णनात् । प्रस्तुतत्वेन सम्बद्धं तत्पर्यायोक्तमुच्यते ॥ यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात्प्रस्तुतमेव कारणं गम्यते तत्पर्यायोक्तिः। यथा संग्रामोद्यत नञ्जभूपतिचमूरेणूत्करच्छादिते स्वभ्यर्ण भ्रमदिन्दुनियंदमृतोत्सित्तेष्वरिक्ष्माभृताम् । सौधाग्रेष्वभितः प्ररूढहरितेष्वागत्य नित्यं भृशं । नर्दत्यद्यकपर्दिनस्स्फुटतर क्षीबो महोक्षो मुहुः ॥ अत्र शत्रुसौधाग्रेषु रेणुसंक्रमणफलत्वेन वर्णनीयेन हरित प्ररोहणरूपकार्येण स्वकारणं प्रस्तुत एव शात्रवप्रवासो गम्यते । गम्यस्यैव भङ्गयन्तरेण कथनं पर्यायोक्तमिति वा लक्षणम् । वीरविभुसुकृतराशे विश्वाधिकचरणकमलकलहंसः । देवो विभुरनुजातो दीव्यति ननु कोऽपि वसुमती विभवः ।। अत्र नाराजः असाधारणरूपेण गम्यः वीरविभुसुकृत राशित्वाद्याकारेणाभिहितः। पर्यायोक्तं तदप्याहुर्यदयाजेनेष्टसाधनम् । लज्जाणमीअवअणं मह विहुणा कलुलपुण्णचंदेण । तिलअसमीअरणमिसा उण्णमिअ किअं अ किंवि किंवि सहि ॥ पश्च प्रतीपान्युपमामृषात्वमन्यस्य वर्ण्यत्वमपार्थता च । वर्ण्यस्य वा निस्समताभिमाननिवारणश्चान्यतरोपमोत्तया ॥ (छा ) लजानमित्वदनं मम विभुना कलुलपूर्णचंद्रेण । तिलकसमीकरणमिषादुन्नमय्य कृतं च किमपि किमपि सखि ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy