________________
२२३
विलास..]
अलङ्कारप्रकरणम् । संक्षोभ्यतां मतिघनैर्मम तु प्रबन्धो नान्यो यदन्त्र मधुरा बहवः पदार्थाः । आलोज्यते हि विबुधैर्विमलः पयोधिर्नान्यो वितीर्णकमलामणिकल्पभूजः॥ आचन्द्रतारमखिलामरमजुवाणीपुजेन वर्णितगुणानि भवधशांसि । ननक्षितीन्द्र नयमार्गविधूततन्त्र भूयो जयन्तु भुवनानि चिरं जयन्तु ॥
वाणीयं भुवि वर्धतां बुधजनश्लाघ्या त्रिलोकीजुषां
सौभाग्यैकनिकेतनं च शशिनो वंशः सदा वर्धताम् । देवश्चन्द्रकलाधरश्च दद्यया निर्व्याजमाप्यायितो
नित्यं नञ्जमहीमहेन्द्रहृदये वासं विधत्तां मुदा ।। आलूरतिरुमलकवेरभिनवभवभूतिनाम विरुदस्य । सुहृदा नृसिंहकविना कृतिरकृतनवीनकालिदासेन ॥ करुणारसकल्लोलकलितापाङ्गविक्षणम् ।
कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादित
निस्सहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितिसम्प्रदायप्रवर्तकनरसिंहकविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे अलङ्कारनिरूपणं नाम सप्तमो विलासः।
इति नाराजयशोभूषणं नामालङ्कारशास्त्रं समासम् ।
Rate:
E
का
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com