SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २०६ नजराजयशोभूषणम्। [विलास. ७ संभवतीति सम्बन्धः कश्चिदभ्युपगन्तव्यः । स च सारूप्यं सामान्यविशेषभावः कार्यकरणाभावश्चेति त्रिविधो भवति तन्निबन्धनेयं पञ्चधा भिद्यते । तत्र सारूप्यात्प्रस्तुताक्षेपो यथा परिमलकवलितजगता चम्पकवृक्षण वालकेनापि । सदृशाः किमन्यतरवः शाखामात्रावृताखिलाशान्ताः॥ अत्राप्रस्तुतचम्पकस्तुत्या केवलमाकारोन्नता अन्ये महीपाला बालेनापि नञ्जराजेन कथं सदृशा भवन्तीत्यर्थविशेषः प्रस्तुतस्सारूप्यावगम्यते । सामान्याधिशेषाक्षेपो यथा। धन्यास्त एव कलुलेनरलोकपाला वंशेऽत्र यैरजनि मञ्जुलकीर्तिपुजैः । श्लाघ्यश्च सोऽपि जगदुत्सवमूर्ति रिन्दु वंशस्स एव यदुपज्ञमभूदवन्याम् ॥ अत्र नञ्जराजस्य गुणमहत्त्वे वर्णनीये तदंश्यानां महत्त्वकथनमप्रस्तुतम् । यथा वाअलं बहूत्या कलुलेनृपाला विभो तवास्मीति वचो वदत्सु । आगांसि युष्मास्वपि वा महान्ति पुराकृतानीव नहि स्मरन्ति ॥ अत्र नञ्जराजगुणे वर्णनीये तद्वंश्यानां प्राश्चां भूपतीनां सकृत्पपन्नेषु रिपुषु महापराधानपि प्राग्जन्मकृतानिव नहि स्मरन्तीति प्रसिद्धमिति गुणवर्णनं सामान्यतः परिगृहीतम् । विशेषात्सामान्यप्रतीतिर्यथा सकृदपि कृतामुपकृति स्मरति सदाऽन्यस्य नञ्जभूपालः। बहुविहितेष्वपराधेष्वणुमपि न कदापि मनसि निदधाति ॥ अत्र ननभूपालः सकृत्कृतामप्युपकृतिमन्यदीयां सदा स्मरति । अपराधेषु बहुषु सत्स्वपि अणुमपि मनसि न करोतीति विशेषेणाप्रस्तुतवर्णनेन सत्पुरुषाणां परकीयगुणमात्रमेव स्वभावः । न तु दोषपरिग्रहणश्चेति सामान्य प्रस्तुतं कविसंरंभगोचरं प्रतीयते । कार्याकारणप्रतीतिरितरः । यथा आयोधनाङ्गणमुपेयुषि नञ्जभूप त्वय्युग्रकोपपरुषस्फुरितादृहासे । प्रत्यर्थिभूमिपतयो भवतो मुहूर्ताचण्डांशुमण्डलमखण्डिपुरात्तशस्त्राः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy