SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ विलास. ७ ] अलङ्कारप्रकरणम् । यत्राभिधीयमाना निन्दा प्रकृते स्तुत्ये प्रमाणबाधिता सती स्तुतिमर्पयति, स्तुतिर्वा निन्द्ये तादृशी सती निन्दामर्पयति, तत्र व्याजस्तुतिरलङ्कारः । व्याजस्तुतिशब्दश्च स्तुतेर्वाच्यत्वे निन्दाया गम्यत्वे व्याजरूपास्तुतिः । तथा तद्वैपरीत्ये व्याजेन स्तुतिरिति च प्रवर्तते । परत्र ननु स्तुत्ये निन्दाया अप्रकृतायाः क्रियमाणायाः प्रकृतस्तुत्याक्षेपकत्वं स्तुतेर्निन्दाक्षेपकत्वमित्यप्रस्तुतप्रशंसा सेयमितिचेत्सत्यम् । तथापि स्तुतिनिन्दात्मकविच्छित्यन्तरालम्बनेन परिगणनात्पार्थक्यमिति तत्र निन्दया स्तुतिर्यथा - रहस्यम् । अव्याजमप्रतिहतं नियतं लसन्त्या कामं कयापि कृपया परतन्त्रवृत्तिम् । सर्वस्वतन्त्र इति नञ्जमहीमहेन्द्र त्वां केन हन्त विबुधा अपि संस्तुवन्ति ॥ अत्र निन्दया परमकृपालुत्वरूपधर्मस्तुतिरेवावगम्यते । स्तुत्या निन्दा यथा विचित्रा धारणाशक्तिर्नवेन्द्र तव विद्विषाम् । यैर्दृष्टमात्रावत्खङ्गादाददे तरलस्थितिः ॥ अत्र विद्विषां बुद्धिविशेषस्तुत्याऽन्यखङ्गदर्शनमात्रेणापि चाञ्चल्यं प्राप्तमिति तेषु निन्दा गम्यते । इमे निन्दास्तुती समानविषयके । भिन्नविषय का सा यथा २०५ वीरनञ्जमहीकान्ते सकृत्प्रणतिकारिणाम् । राज्ञामम्बुरुहाक्षीणां भाग्यं कस्य स्तुतिक्षमम् ॥ इदं च शत्रुस्त्रीणां वचनम् । अत्र स्वान्यासां नञ्जराजसेवकराजस्त्रीणां भाग्यस्तुत्या मूर्खन्नृपकरावलम्बिनीषु स्वासु निन्दा योत्यते । एवं निन्दया स्तुतिरपि बोद्ध्या । गम्यप्रस्तावादप्रस्तुतप्रशंसोच्यते । अप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते यदि । अप्रस्तुतप्रशंसेयं कथिता पञ्चधा बुधैः ॥ इति । यत्राप्रस्तुतस्य (अ) प्रस्तुतत्वादेव वर्णन समु (मनु ? ) चितं सत्प्रकृतं गमयति तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात्प्रस्तुताक्षेपश्च यत्किञ्चित्सम्बन्धाभावे न Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy