SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २०४ कथननिषेधो यथा राजयशोभूषणम् । दयस्वत्युक्तिर्नस्त्वयि तु न चमत्कारविषयः कृपासाघारण्यं वहति कळुलेवंशविभुषु । प्रसीदेति ब्रूमस्तदिदमपि सिद्धार्थकथनं किमास्ते विज्ञाप्यं प्रकृतविदि नञ्जक्षितिपतौ ॥ अत्र दयस्वेत्यादिकथने निषेधः सर्वथाऽस्मासु दयाऽधिकं भवता विधेयेत्पर्थविशेषं प्रत्याययति । सामान्यप्रतिज्ञया विशेषनिषेधो यथा भूपाल नञ्जनरनाथविरोधिनस्ते किश्चिद्वदामि भवतो न च वा वदामि । आकर्ण्यते हि भवताऽपि कठोरसान्द्रग्रावौघदन्तुरवनभ्रमणप्रधावः ( यासः ? ) ॥ [ विलास. ७ इदं च विमतराजं प्रति तद्मात्यवचनम् । अत्र किञ्चिद्वदामीति सामान्यतः प्रतिज्ञाय भवतो न वदामीति निषेघाभासेन नञ्जराजविरोधं त्यज, न चेद्रनभ्रमणं तवाप्यपरिहार्यं भविष्यतीत्यर्थविशेषः प्रतीयते । अंशोक्तावंशान्तरस्य निषेधो यथा त्वयि नञ्जनरेन्द्रसक्तचित्ता तरुणीचारुशिरीष कोमलाङ्गी । प्रलयानिलदारुणच कामः कथयित्वाऽलमतः परं विशेषम् ॥ अत्र बाधकः क्रूरः कामः, षाड्या स्वत्यन्तमृदुलेत्येक देशकथनपूर्वकमुत्तरवक्तव्यावश्यककथननिषेधेन यदित्वमिदानीं तां न पालयसि ततो महानायासो भविष्यतीत्यर्थविशेषः प्रतीयते । केवल पूर्वोक्तस्य प्रतिषेघमात्रमाक्षेप इति केचित् । यथा- Shree Sudharmaswami Gyanbhandar-Umara, Surat कल्पद्रुमः काङ्क्षितदानदक्षः सृष्टो विधात्रा न कथं धरण्याम् । यद्वा विचिन्त्यालमशेषदाता विनिर्मितोऽयं भुवि नञ्जराजः ॥ अथ गम्यस्तुतिप्रस्तावात् व्याजोक्तिर्निरूप्यते । यत्र वाच्या स्तुतिर्निन्दां निन्दा वा स्तुतिरर्पयेत् । तत्र व्याजस्तुतिं नामालङ्कारं कवयो विदुः ॥ www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy